०९

01 अथ विश्वामित्राणान् देवराताश्चिकितमनुतन्त्वौलकिवालुकियज्ञवल्कोलूकबृहदग्निबभ्रुगालविशालावतशालङ्कायनकालबवाः ...{Loading}...

अथ विश्वामित्राणां देवराताश्चिकितमनुतन्त्वौलकिवालुकियज्ञवल्कोलूकबृहदग्निबभ्रुगालविशालावतशालङ्कायनकालबवाः १

02 तेषान् त्र्यार्षेयः वैश्वामित्र ...{Loading}...

तेषां त्र्यार्षेयः । वैश्वामित्र दैवरातौदलेति । उदलवद्देवरातवद्विश्वामित्रवदिति २

03 अथ श्रौमतकामकायनानान् त्र्यार्षेयः ...{Loading}...

अथ श्रौमतकामकायनानां त्र्यार्षेयः । वैश्वामित्र दैवश्रवस दैवतरसेति । देवतरसवद्देवश्रवोवद्विश्वामित्रवदिति ३

04 अथाज्यानान् त्र्यार्षेयः वैश्वामित्र ...{Loading}...

अथाज्यानां त्र्यार्षेयः । वैश्वामित्र माधुच्छन्दसाज्येति । अजवन्मधुच्छन्दोवद्विश्वामित्रवदिति ४

05 अथ माधुच्छन्दसा एव ...{Loading}...

अथ माधुच्छन्दसा एव धनञ्जयाः ५

06 तेषान् त्र्यार्षेयः वैश्वामित्र ...{Loading}...

तेषां त्र्यार्षेयः । वैश्वामित्र माधुच्छन्दस धानञ्जय्येति । धनञ्जयवन्मधुच्छन्दोवद्विश्वामित्रवदिति ६

07 अथाष्टका लोहिताः ...{Loading}...

अथाष्टका लोहिताः ७

08 तेषान् द्व्यार्षेयः वैश्वामित्राष्टकेति ...{Loading}...

तेषां द्व्यार्षेयः । वैश्वामित्राष्टकेति । अष्टकवद्विश्वामित्रवदिति ८

09 अथ पूरणा वारिधापयन्ताः ...{Loading}...

अथ पूरणा वारिधापयन्ताः ९

10 तेषान् द्व्यार्षेयः वैश्वामित्र ...{Loading}...

तेषां द्व्यार्षेयः । वैश्वामित्र पौरणेति । पूरणवद्विश्वामित्रवदिति १०

11 अथ कतानान् त्र्यार्षेयः ...{Loading}...

अथ कतानां त्र्यार्षेयः । वैश्वामित्र कात्यात्कीलेति । अत्कीलवत्कतवद्विश्वामित्रवदिति ११

12 अथाघमर्षणाः कुशिकाः ...{Loading}...

अथाघमर्षणाः कुशिकाः १२

13 तेषान् त्र्यार्षेयः वैश्वामित्राघमर्षण ...{Loading}...

तेषां त्र्यार्षेयः । वैश्वामित्राघमर्षण कौशिकेति । कुशिकवदघमर्षणवद्विश्वामित्रवदिति १३

14 अथ कश्यपानान् त्र्यार्षेयः ...{Loading}...

अथ कश्यपानां त्र्यार्षेयः । काश्यपावत्सार नैध्रुवेति । निध्रुववदवत्सारवत्कश्यपवदिति १४

15 अथ रेभाणान् त्र्यार्षेयः ...{Loading}...

अथ रेभाणां त्र्यार्षेयः । काश्यपावत्सार रभेति । रेभवदवत्सारवत्कश्यपवदिति १५

इति नवमी कण्डिका