०८

01 अथ कुत्सानान् त्र्यार्षेयः ...{Loading}...

अथ कुत्सानां त्र्यार्षेयः । आङ्गिरस मान्धात्र कौत्सेति । कुत्सवन्मान्धातृवदङ्गिरोवदिति १

02 अथाजमीढाः कण्वाः ...{Loading}...

अथाजमीढाः कण्वाः २

03 तेषान् त्र्यार्षेयः आङ्गिरसाजमीढ ...{Loading}...

तेषां त्र्यार्षेयः । आङ्गिरसाजमीढ काण्वेति । कण्ववदजमीढवदङ्गिरोवदिति ३

04 अथ विरूपा रथीतराः ...{Loading}...

अथ विरूपा रथीतराः ४

05 तेषाम् त्र्यार्षेयः आङ्गिरस ...{Loading}...

तेषाम् त्र्यार्षेयः । आङ्गिरस वैरूप पार्षदश्वेति । पृषदश्ववद्विरूपवदङ्गिरोवदिति ५

06 अष्ट्रादंष्ट्रमु हैकेऽङ्गिरसः स्थाने ...{Loading}...

अष्ट्रादंष्ट्रमु हैकेऽङ्गिरसः स्थाने । आष्ट्रादंष्ट्र वैरूप पार्षदश्वेति । पृषदश्ववद्विरूपवदष्ट्रादंष्ट्रवदिति ६

07 अथ मुद्गलानान् त्र्यार्षेयः ...{Loading}...

अथ मुद्गलानां त्र्यार्षेयः । आङ्गिरस भार्ग्यश्च मौद्गल्येति । मुद्गलवद्भृम्यश्ववदङ्गिरोवदिति ७

08 तृक्षुमु हैकेऽङ्गिरसः स्थाने ...{Loading}...

तृक्षुमु हैकेऽङ्गिरसः स्थाने । तार्क्ष्य भार्म्यश्व मौद्गल्येति । मुद्गलवद्भृम्यश्ववत्तृक्षुवदिति ८

09 अथ विष्णुवृद्धानान् त्र्यार्षेयः ...{Loading}...

अथ विष्णुवृद्धानां त्र्यार्षेयः । आङ्गिरस पौरुकुत्स त्रासदस्यवेति । त्रसदस्युवत्पुरुकुत्सवदङ्गिरोवदिति ९

10 एष एवाविकृतः शठमर्षणभद्रणमद्रणबादरायणौपमिन्यौपगविसात्यकिसात्यङ् ...{Loading}...

एष एवाविकृतः शठमर्षणभद्रणमद्रणबादरायणौपमिन्यौपगविसात्यकिसात्यं काम्यारुणिनितुण्डीनाम् १०

11 अथात्रीणान् त्र्यार्षेयः आत्रेयार्चनानस ...{Loading}...

अथात्रीणां त्र्यार्षेयः । आत्रेयार्चनानस श्यावाश्वेति । श्यावाश्ववदर्चनानसवदत्रिवदिति ११

12 अथ गविष्ठिराणान् त्र्यार्षेयः ...{Loading}...

अथ गविष्ठिराणां त्र्यार्षेयः । आत्रेयार्चनानस गाविष्ठिरेति । गविष्ठिरवदर्चनानस वदत्रिवदिति १२

13 अथातिथीनान् त्र्यार्षेयः आत्रेयार्चनानसातिथ्येति ...{Loading}...

अथातिथीनां त्र्यार्षेयः । आत्रेयार्चनानसातिथ्येति । अतिथिवदर्चनानस वदत्रिवदिति १३

14 एष एवाविकृतो वामरथ्यसुमङ्गलबै ...{Loading}...

एष एवाविकृतो वामरथ्यसुमङ्गलबै जवापीनाम् १४

इत्यष्टमी कण्डिका