०७

01 कुक्काग्निवेश्योर्जायनानां सर्वेषाञ् च ...{Loading}...

कुक्काग्निवेश्योर्जायनानां सर्वेषां च स्तम्बस्तम्बशब्दानाम् १

02 अथ द्व्यामुष्यायणानाङ् कुलानां ...{Loading}...

अथ द्व्यामुष्यायणानां कुलानां यथा शुङ्गशैशिरयः २

03 भरद्वाजाः शुङ्गाः कताः ...{Loading}...

भरद्वाजाः शुङ्गाः । कताः शैशिरयः ३

04 तेषाम् पञ्चार्षेयः आङ्गिरस ...{Loading}...

तेषां पञ्चार्षेयः । आङ्गिरस बार्हस्पत्य भारद्वाज कात्यात्कीलेति । अत्कीलवत्कतवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति ४

05 त्र्यार्षेयमु हैके आङ्गिरस ...{Loading}...

त्र्यार्षेयमु हैके । आङ्गिरस कात्यात्कीलेति । अत्कीलवत्कतवदङ्गिरोवदिति ५

06 अथर्क्षाणाम् पञ्चार्षेयः आङ्गिरस ...{Loading}...

अथर्क्षाणां पञ्चार्षेयः । आङ्गिरस बार्हस्पत्य भारद्वाज वान्दन माववचसेति । मतवचोवद्वन्दनवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति ६

07 त्र्यार्षेयमु हैके आङ्गिरस ...{Loading}...

त्र्यार्षेयमु हैके । आङ्गिरस वान्दन मा वचसेति । मतवचोवद्वन्दनवदङ्गिरोवदिति ७

08 अथ कपीनान् त्र्यार्षेयः ...{Loading}...

अथ कपीनां त्र्यार्षेयः । आङ्गिरसामहीयौरुक्षयेति । उरुक्षयवदमहीयवदङ्गिरोवदिति ८

09 अथ गर्गाणान् त्र्यार्षेयः ...{Loading}...

अथ गर्गाणां त्र्यार्षेयः । आङ्गिरस गार्ग्य शैन्येति । शिनि वद्गर्गवदङ्गिरोवदिति ९

10 भरद्वाजमु हैकेऽङ्गिरसः स्थाने ...{Loading}...

भरद्वाजमु हैकेऽङ्गिरसः स्थाने । भारद्वाज गार्ग्य शैन्येति । शिनिवद्गर्गवद्भरद्वाजवदिति १०

11 अथ हरितानान् त्र्यार्षेयः ...{Loading}...

अथ हरितानां त्र्यार्षेयः । आङ्गिरसाम्बरीष यौवनाश्वेति । युवनाश्ववदम्बरीषवदङ्गिरोवदिति ११

12 मान्धातारमु हैकेऽङ्गिरसः स्थाने ...{Loading}...

मान्धातारमु हैकेऽङ्गिरसः स्थाने । मान्धात्राम्बरीष यौवनाश्वेति । युवनाश्ववदम्बरीषवन्मान्धातृवदिति १२

इति सप्तमी कण्डिका


  1. We should read stambhastambaśabdānām in stead of stambastambaśabdānām. ↩︎