०६

01 अथ वीतहव्या यास्कवाधूलमौनमौकाः …{Loading}…

अथ वीतहव्या यास्कवाधूलमौनमौकाः १

02 तेषान् त्र्यार्षेयः भार्गव …{Loading}…

तेषां त्र्यार्षेयः । भार्गव वैतहव्य सावेदसेति । सवेदोवद्वीतहव्यवद्भगुवदिति २

03 अथ गार्त्समदाः शनकाः …{Loading}…

अथ गार्त्समदाः शनकाः ३

04 तेषामेकार्षेयः गार्त्समदेति होता …{Loading}…

तेषामेकार्षेयः । गार्त्समदेति होता । गृत्समदवदित्यध्वर्युः ४

05 अथ वाध्र्यश्वा मित्रायुवः …{Loading}…

अथ वाध्र्यश्वा मित्रायुवः ५

06 तेषामेकार्षेयः वाध्र्यश्वेति होता …{Loading}…

तेषामेकार्षेयः । वाध्र्यश्वेति होता । वध्र्यश्ववदित्यध्वर्युः ६

07 अथ वैन्याः पार्थाः …{Loading}…

अथ वैन्याः पार्थाः ७

08 तेषान् त्र्यार्षेयः भार्गव …{Loading}…

तेषां त्र्यार्षेयः । भार्गव वैन्य पार्थेति । पृथु वद्वेन वद्भृगुवदिति ८

09 इमे भृगवो व्याख्याताः …{Loading}…

इमे भृगवो व्याख्याताः ९

10 अथातोऽङ्गिरसामायास्या गौतमाः …{Loading}…

अथातोऽङ्गिरसामायास्या गौतमाः १०

11 तेषान् त्र्यार्षेयः आङ्गिरसायास्य …{Loading}…

तेषां त्र्यार्षेयः । आङ्गिरसायास्य गौतमेति । गोतमवदयास्यवदङ्गिरोवदिति ११

12 अथौचथ्या गौतमाः …{Loading}…

अथौचथ्या गौतमाः १२

13 तेषान् त्र्यार्षेयः आङ्गिरसौचथ्य …{Loading}…

तेषां त्र्यार्षेयः । आङ्गिरसौचथ्य गौतमेति । गोतमवदुचथ्यवदङ्गिरोवदिति १३

14 अथौशिजा गौतमाः …{Loading}…

अथौशिजा गौतमाः १४

15 तेषान् त्र्यार्षेयः आङ्गिरसौशिज …{Loading}…

तेषां त्र्यार्षेयः । आङ्गिरसौशिज काक्षीवतेति । कक्षीवद्वदुशिजवदङ्गिरोवदिति १५

16 अथ वामदेवा गौतमाः …{Loading}…

अथ वामदेवा गौतमाः १६

17 तेषान् त्र्यार्षेयः आङ्गिरस …{Loading}…

तेषां त्र्यार्षेयः । आङ्गिरस वामदेव बार्हदुक्थ्येति । बृहदुक्थ्यवद्वामदेववदङ्गिरोवदिति १७

18 अथ भरद्वाजानान् त्र्यार्षेयः …{Loading}…

अथ भरद्वाजानां त्र्यार्षेयः । आङ्गिरस बार्हस्पत्य भारद्वाजेति । भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति १८

19 एष एवाविकृतः …{Loading}…

एष एवाविकृतः १९

इति षष्ठी कण्डिका


  1. These families ar mentioned in the next Sūtra. ↩︎