०५

01 प्रवरान्व्याख्यास्यामः …{Loading}…

प्रवरान्व्याख्यास्यामः १

02 आर्षेयं वृणीते बन्धोरेव …{Loading}…

आर्षेयं वृणीते । बन्धोरेव नैत्यथो सन्तत्या इति विज्ञायते २

03 न देवैर्न मनुष्यैरार्षेयं …{Loading}…

न देवैर्न मनुष्यैरार्षेयं वृणीते । ऋषिभिरेवार्षेयं वृणीत इति विज्ञायते ३

04 आर्षेयमन्वाचष्टे ऋषिणा हि …{Loading}…

आर्षेयमन्वाचष्टे । ऋषिणा हि देवाः पुरुषमनुबुध्यन्त इति विज्ञायते ४

05 यो वा अन्यः …{Loading}…

यो वा अन्यः सन्नथान्यस्यार्षेयेण प्रवृणीते स वा अस्य तदृषिरिष्टं वीतं वृङ्क्त इति विज्ञायते ५

06 त्रीन्वृणीते मन्त्रकृतो वृणीते …{Loading}…

त्रीन्वृणीते । मन्त्रकृतो वृणीते । यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ६

07 अथैकेषाम् एकं वृणीते …{Loading}…

अथैकेषाम् । एकं वृणीते । द्वौ वृणीते । त्रीन्वृणीते । न चतुरो वृणीते । न पञ्चातिवृणीत इति विज्ञायते ७

08 अत ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोऽर्वाचो होतेति …{Loading}…

अत ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोऽर्वाचो होतेति विज्ञायते ८

09 पुरोहितस्य प्रवरेण राजा …{Loading}…

पुरोहितस्य प्रवरेण राजा प्रवृणीत इति विज्ञायते ९

09 पुरोहितस्य प्रवरेण राजा …{Loading}…

पुरोहितस्य प्रवरेण राजा प्रवृणीत इति विज्ञायते ९

10 भृगूणामेवाग्रे व्याख्यास्यामः …{Loading}…

भृगूणामेवाग्रे व्याख्यास्यामः १०

11 जामदग्न्या वत्साः …{Loading}…

जामदग्न्या वत्साः ११

12 तेषाम् पञ्चार्षेयुः प्रवरः …{Loading}…

तेषां पञ्चार्षेयुः प्रवरः । भार्गव च्यावनाप्र्नवानौर्व जामदग्न्येति । जमदग्निवदूर्ववदप्नवानवच्च्यवनवद्भृगुवदिति १२

13 आर्षेयमु हैके भार्गवौर्व …{Loading}…

आर्षेयमु हैके । भार्गवौर्व जामदग्न्येति । जमदग्निवदूर्ववद्भृगुवदिति १३

14 एष एवाविकृतः सावर्णिजीवन्तिजाबाल्यैतिशायनवैरोहित्यावटमण्डुप्राचीनयोग्यानाम् …{Loading}…

एष एवाविकृतः सावर्णिजीवन्तिजाबाल्यैतिशायनवैरोहित्यावटमण्डुप्राचीनयोग्यानाम् १४

15 अथार्ष्टिषेणानाम् पञ्चार्षेयः भार्गव …{Loading}…

अथार्ष्टिषेणानां पञ्चार्षेयः । भार्गव च्यावनाप्नवानार्ष्टिषेणानूपेति । अनूपवदृष्टिषेणवदप्नवानवच्च्यवनवद्भृगुवदिति १५

16 त्र्यार्षेयमु हैके भार्गवार्ष्टिषेणानूपेति …{Loading}…

त्र्यार्षेयमु हैके । भार्गवार्ष्टिषेणानूपेति । अनूपवदृष्टिषेणवद्भृगुवदिति १६

इति पञ्चमी कण्डिका


  1. TS II.5.8.7. ↩︎ ↩︎ ↩︎ ↩︎