०४

01 स्वामिनोऽग्नेर्देवतायाः शब्दात्कर्मणः प्रतिषेधाच्च ...{Loading}...

स्वामिनोऽग्नेर्देवतायाः शब्दात्कर्मणः प्रतिषेधाच्च प्रतिनिधिर्निवृत्तः १

02 त्रिभिः कारणैः प्रकृतिर्निवर्तते ...{Loading}...

त्रिभिः कारणैः प्रकृतिर्निवर्तते प्रत्याम्नानात्प्रतिषेधादर्थलोपाच्च २

03 अग्निष्टोम एकाहानाम् प्रकृतिः ...{Loading}...

अग्निष्टोम एकाहानां प्रकृतिः ३

04 द्वादशाहोऽहर्गणानाम् ...{Loading}...

द्वादशाहोऽहर्गणानाम् ४

05 गवामयनं सांवत्सरिकाणाम् ...{Loading}...

गवामयनं सांवत्सरिकाणाम् ५

06 निकायिनान् तु प्रथमः ...{Loading}...

निकायिनां तु प्रथमः ६

07 अग्निष्टोम उत्तरवेदिः ...{Loading}...

अग्निष्टोम उत्तरवेदिः ७

08 उत्तरेषु क्रतुष्वग्निः ...{Loading}...

उत्तरेषु क्रतुष्वग्निः ८

09 अन्यत्र साद्यस्क्रेभ्यो वाजपेयात्षोडशिनः ...{Loading}...

अन्यत्र साद्यस्क्रेभ्यो वाजपेयात्षोडशिनः सारस्वताच्च सत्त्रात् ९

10 क्रत्वादौ क्रतुकामङ् कामयेत ...{Loading}...

क्रत्वादौ क्रतुकामं कामयेत १०

11 यज्ञाङ्गादौ यज्ञाङ्गकामम् ...{Loading}...

यज्ञाङ्गादौ यज्ञाङ्गकामम् ११

12 अल्पीयांसो मन्त्रा भूयांसि ...{Loading}...

अल्पीयांसो मन्त्रा भूयांसि कर्माणि तत्र समशः प्रतिविभज्य पूर्वैः पूर्वाणि कारयेदुत्तरैरुत्तराणि १२

13 अल्पीयांसि कर्माणि भूयांसो ...{Loading}...

अल्पीयांसि कर्माणि भूयांसो मन्त्रास्तत्र प्रतिमन्त्रं कुर्यात् । अवशिष्टा विकल्पार्था यथा यूपद्रव्याणीति १३

14 अन्ताल्लोपो विवृद्धिर्वा ...{Loading}...

अन्ताल्लोपो विवृद्धिर्वा १४

15 प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यात् ...{Loading}...

प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यात् १५

16 कुम्भीशूलवपाश्रपणीप्रभुत्वात्तन्त्रं स्यात् ...{Loading}...

कुम्भीशूलवपाश्रपणीप्रभुत्वात्तन्त्रं स्यात् १६

17 जातिभेदे तु भिद्येत ...{Loading}...

जातिभेदे तु भिद्येत पक्तिवैषम्यात् १७

18 स्विष्टकृद्विकारे वनस्पतौ याज्यायान् ...{Loading}...

स्विष्टकृद्विकारे वनस्पतौ याज्यायां देवतानिगमाः स्युः प्रकृत्युपबन्धात् १८

19 अन्वारम्भणीया विकृतौ न ...{Loading}...

अन्वारम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् । कृता हि तदर्थेन १९

20 स्याद्वा कालस्याशेषभूतत्वात् ...{Loading}...

स्याद्वा कालस्याशेषभूतत्वात् २०

21 आरम्भविभागाच्च ...{Loading}...

आरम्भविभागाच्च २१

22 अर्थायार्थायाग्निम् प्रणयति अपवृत्ते ...{Loading}...

अर्थायार्थायाग्निं प्रणयति । अपवृत्ते कर्मणि लौकिकः सम्पद्यते यथा समारूढे २२

इति चतुर्थी कण्डिका


  1. Thus for example when it is said that the beans should not be offered, this prohibition remains always valid. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See e.g. VII.14.21. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. While cooking rice-pap one should not use flour because the grains are expected to remain distinct even when they are cooked and this purpose will not be served when flour is used. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. XXIII. 12.4ff. ↩︎