०३

01 देशे काले कर्तरीति ...{Loading}...

देशे काले कर्तरीति निर्दिश्यते स्वशब्दं यत् १

02 अपूर्वो दर्विहोमः ...{Loading}...

अपूर्वो दर्विहोमः २

03 जुहोति चोदनः ...{Loading}...

जुहोति चोदनः ३

04 स्वाहाकारप्रदानः ...{Loading}...

स्वाहाकारप्रदानः ४

05 सकृद्गृहीत्वा ...{Loading}...

सकृद्गृहीत्वा ५

06 आहुतिगणे प्रत्याहुति गृहीत्वा ...{Loading}...

आहुतिगणे प्रत्याहुति गृहीत्वा ६

07 न वा समवद्येत् ...{Loading}...

न वा समवद्येत् ७

08 समिदभावश्चाग्निहोत्रवर्जम् ...{Loading}...

समिदभावश्चाग्निहोत्रवर्जम् ८

09 अपरेणाग्निन् दक्षिणञ् जान्वाच्यानाच्य ...{Loading}...

अपरेणाग्निं दक्षिणं जान्वाच्यानाच्य वासीनो दर्विहोमाञ्जुहोति ९

10 वचनादन्यथा ...{Loading}...

वचनादन्यथा १०

11 अपरेणाहवनीयन् दक्षिणातिक्रम्योदगावृत्तः सर्वा ...{Loading}...

अपरेणाहवनीयं दक्षिणातिक्रम्योदगावृत्तः सर्वा आहुतीर्जुहोति ११

12 वचनादन्यथा ...{Loading}...

वचनादन्यथा १२

13 आश्रुतप्रत्याश्रुते याज्यानुवाक्ये अवदानेषु ...{Loading}...

आश्रुतप्रत्याश्रुते याज्यानुवाक्ये अवदानेषु चोपस्तरणाभिघारणे चतुर्गृहीतं वषट्कारश्चादर्विहोमानाम् १३

14 वषट्कृते वषट्कारेण वाहुतिषु ...{Loading}...

वषट्कृते वषट्कारेण वाहुतिषु सन्निपातयेत् १४

15 उपयामेन ग्रहेषु ...{Loading}...

उपयामेन ग्रहेषु १५

16 तयादेवतेनेष्टकासु ...{Loading}...

तयादेवतेनेष्टकासु १६

17 पुरोडाशगणे यथाभागं व्यावर्तध्वमित्येकैकमपच्छिन्द्यात् ...{Loading}...

पुरोडाशगणे यथाभागं व्यावर्तध्वमित्येकैकमपच्छिन्द्यात् १७

18 उत्तमौ यथाभागं व्यावर्तेथामिति ...{Loading}...

उत्तमौ यथाभागं व्यावर्तेथामिति १८

19 तयोरेव देवतोपदेशनङ् करोति ...{Loading}...

तयोरेव देवतोपदेशनं करोति १९

20 चरुपुरोडाशगणे चरुपुरोडाशीयान्प्रागधिवपनाद्विभजति ...{Loading}...

चरुपुरोडाशगणे चरुपुरोडाशीयान्प्रागधिवपनाद्विभजति २०

21 यथादेवतमुपलक्षयति ...{Loading}...

यथादेवतमुपलक्षयति २१

22 इदंशब्दस्तन्त्रं स्यात् ...{Loading}...

इदंशब्दस्तन्त्रं स्यात् २२

23 व्यतिषक्तेष्वपि ...{Loading}...

व्यतिषक्तेष्वपि २३

24 कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण ...{Loading}...

कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण चरुमुपदधाति २४

25 ध्रुवोऽसीति मन्त्रं सन्नमति ...{Loading}...

ध्रुवोऽसीति मन्त्रं सन्नमति २५

26 पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति ...{Loading}...

पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति २६

27 अधिश्रयणकालेऽधिश्रयणमन्त्रेण तण्डुलानावपति ...{Loading}...

अधिश्रयणकालेऽधिश्रयणमन्त्रेण तण्डुलानावपति २७

28 अनुद्धृत्य चरुमासादयति ...{Loading}...

अनुद्धृत्य चरुमासादयति २८

29 पञ्चदश सामिधेन्यो दर्शपूर्नमासयोः ...{Loading}...

पञ्चदश सामिधेन्यो दर्शपूर्नमासयोः २९

30 सप्तदशेष्टिपशुबन्धानां यत्र श्रूयन्ते ...{Loading}...

सप्तदशेष्टिपशुबन्धानां यत्र श्रूयन्ते ३०

31 उपांशु काम्या इष्टयः ...{Loading}...

उपांशु काम्या इष्टयः क्रियन्त इति तत्र यावत्प्रधानमुपांशु ३१

32 दर्शपूर्णमासाविष्टीनाम् प्रकृतिः ...{Loading}...

दर्शपूर्णमासाविष्टीनां प्रकृतिः ३२

33 अग्नीषोमीयस्य च पशोः ...{Loading}...

अग्नीषोमीयस्य च पशोः ३३

34 स सवनीयस्य ...{Loading}...

स सवनीयस्य ३४

35 सवनीय ऐकादशिनानाम् ...{Loading}...

सवनीय ऐकादशिनानाम् ३५

36 ऐकादशिनाः पशुगणानाम् ...{Loading}...

ऐकादशिनाः पशुगणानाम् ३६

37 वैश्वदेवं वरुणप्रघाससाकमेधशुनासीरीयाणाम् ...{Loading}...

वैश्वदेवं वरुणप्रघाससाकमेधशुनासीरीयाणाम् ३७

38 वैश्वदेविक एककपाल एककपालानाम् ...{Loading}...

वैश्वदेविक एककपाल एककपालानाम् ३८

39 वैश्वदेव्यामिक्षामिक्षाणाम् ...{Loading}...

वैश्वदेव्यामिक्षामिक्षाणाम् ३९

40 तत्र सामान्याद्विकारो गम्येत ...{Loading}...

तत्र सामान्याद्विकारो गम्येत ४०

41 एव देवता आग्नेयविकाराः ...{Loading}...

एव देवता आग्नेयविकाराः ४१

42 द्विदेवता अग्नीषोमीयविकाराः ...{Loading}...

द्विदेवता अग्नीषोमीयविकाराः ४२

43 बहुदेवताश्च ...{Loading}...

बहुदेवताश्च ४३

44 ऐन्द्राग्नविकारा वा ...{Loading}...

ऐन्द्राग्नविकारा वा ४४

45 अन्यत्र प्रकृतिदेवताभ्यो यथैन्द्रः ...{Loading}...

अन्यत्र प्रकृतिदेवताभ्यो यथैन्द्रः पुरोडाशः सौम्यश्चरुरिति ४५

46 हविर्देवतासामान्ये हविर्बलीयः ...{Loading}...

हविर्देवतासामान्ये हविर्बलीयः ४६

47 द्रव्यसंस्कारविरोधे द्रव्यम् बलीयः ...{Loading}...

द्रव्यसंस्कारविरोधे द्रव्यं बलीयः ४७

48 अर्थद्रव्यविरोधेऽर्थो बलीयान् ...{Loading}...

अर्थद्रव्यविरोधेऽर्थो बलीयान् ४८

49 न प्रकृतावूहो विद्यते ...{Loading}...

न प्रकृतावूहो विद्यते ४९

50 विकृतौ यथार्थमूहोऽर्थवादवर्जम् ...{Loading}...

विकृतौ यथार्थमूहोऽर्थवादवर्जम् ५०

51 परवाक्यश्रवणादर्थवादः ...{Loading}...

परवाक्यश्रवणादर्थवादः ५१

52 शिष्टाभावे सामान्यात्प्रतिनिधिः ...{Loading}...

शिष्टाभावे सामान्यात्प्रतिनिधिः ५२

53 तद्धर्मा च स्यात् ...{Loading}...

तद्धर्मा च स्यात् ५३

54 मात्रापचारे तच्छेषेण समाप्नुयात् ...{Loading}...

मात्रापचारे तच्छेषेण समाप्नुयात् ५४

इति तृतीया कण्डिका


  1. As e.g. at the Samistayajus: III.13.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎