०२

01 मन्त्रान्तेः कर्मादीन्सन्निपातयेत् …{Loading}…

मन्त्रान्ते कर्मादीन् संनिपातयेत् ++++++(अन्तरं विना)++++++ १

02 आघारे धारायाञ् चादिसंयोगः …{Loading}…

आघारे धारायां चादिसंयोगः २

03 आदिप्रदिष्टा मन्त्राः …{Loading}…

आदिप्रदिष्टा +++(=मन्त्रादिनोपदिष्टा)+++ मन्त्राः ३

04 उत्तरस्यादिना पूर्वस्यावसानं विद्यात् …{Loading}…

उत्तरस्यादिना पूर्वस्यावसानं विद्यात् ४

05 होत्रायाजमानेषु समुच्चयः …{Loading}…

?? - होत्रायाजमानेषु समुच्चयः ५

06 विकल्पो याज्यानुवाक्यासु …{Loading}…

विकल्पो याज्यानुवाक्यासु ६

07 सङ्ख्यासु च तद्वत् …{Loading}…

संख्यासु च तद्वत् ७

08 क्रयपरिक्रयसंस्कारेषु द्रव्यसमुच्चयः …{Loading}…

क्रयपरिक्रयसंस्कारेषु द्रव्यसमुच्चयः ८

09 रौद्रराक्षसनैरृतपैतृकच्छेदनभेदननिरसनात्माभिमर्शनानि च कृत्वाप …{Loading}…

रौद्र-राक्षस-नैरृत-पैतृक-च्छेदन-भेदन-निरसनात्माभिमर्शनानि च कृत्वाप उपस्पृशेत् ९

10 उत्तरतौपचारो विहारः …{Loading}…

{देवकर्मभ्य} उत्तरत उपचारो (=सञ्चारावकाशः) विहारः (=आगारः) १०

11 नाग्नेरपपर्यावर्तेत …{Loading}…

नाग्नेरपपर्यावर्तेत (=पृष्ठं दर्शयन्) ११

12 न विहारात् …{Loading}…

न विहारात् १२

13 अन्तराणि यज्ञाङ्गानि बाह्याः …{Loading}…

अन्तराणि यज्ञाङ्गानि (=दर्व्यादीनि) । बाह्याः कर्तारः १३

14 न मन्त्रवता यज्ञाङ्गेनात्मानमभिपरिहरेत् …{Loading}…

न मन्त्रवता यज्ञाङ्गेनात्मानमभिपरिहरेत् (=वेष्टयेत्) १४

15 प्रागपवर्गाण्युदगपवर्गाणि वा यज्ञोपवीती …{Loading}…

प्रागपवर्गाण्य् उदगपवर्गाणि वा यज्ञोपवीती प्रदक्षिणं दैवानि कर्माणि करोति १५

16 प्राचीनावीती प्रसव्यन् दक्षिणापवर्गाणि …{Loading}…

प्राचीनावीती प्रसव्यं दक्षिणापवर्गाणि पित्र्याणि १६

17 यानि शुल्बानि समासङ् …{Loading}…

यानि शुल्बानि +++(=रज्जवः)+++ समासं गच्छन्ति +++(=मिलितानि क्रियन्ते द्विगुणितमिव)+++ प्रसव्यं तान्यावेष्ट्य, प्रदक्षिणं समस्येत् १७

18 अथ यानि न …{Loading}…

अथ यानि न समस्यन्ते प्रदक्षिणं तानि +++{यथा +इध्मसन्नाहे}+++ १८

19 अमावास्यायाममावास्यया यजेत …{Loading}…

अमावास्यायाम् +++(=पर्वसन्धिः, तद्-युक्तय् अहनी द्वे)+++ अमावास्यया यजेत १९

20 पौणमास्याम् पौर्णमास्या …{Loading}…

पौर्णमास्यां +++(=पर्वसन्धिः, तद्युक्तय् अहनी द्वे)+++ पौर्णमास्या २०

21 यदहः पुरस्ताच्चन्द्रमाः पूर्ण …{Loading}…

+++(पूर्वाह्णे यथा प्राग्-उक्तं तथा पूर्वाह्णे सन्धिर् न लभ्यते चेत्)+++
यदहः +++(रात्रौ वा)+++ पुरस्ताच् +++(=पूर्वायाम्)+++ चन्द्रमाः पूर्ण +++(=पूर्णप्राय)+++ उत्सर्पेत् +++(=उदेति [सायं])+++ तां पौर्णमासीम् उपवसेत्
+++(परेद्युर् इष्टिः)+++। २१

22 श्वः पूरितेति वा …{Loading}…

श्वः +++(पूर्वाह्णे)+++ पूरितेति वा २२

23 खर्विकान् तृतीयां वाजसनेयिनः …{Loading}…

+++(पूर्वाह्णे यदा पर्वसन्धिः, रात्रेर् अन्तिमे १/१२-भागे वा)+++
खर्विकां +++(=अल्पसंज्ञाम्)+++ तृतीयां +++(पौर्णमासीम्)+++ वाजसनेयिनः समामनन्ति
+++(अतो ऽनुकल्पः - तद्दिनय् उपवासः, परेद्युर् इष्टिः द्वितीयायाम्!)+++ २३

24 यदहर्न दृश्यते तदहरमावास्या …{Loading}…

यदहर् +++(रात्रौ)+++ न दृश्यते तदहरमावास्या +++(उपवसेत्)+++ २४

25 श्वो न द्रष्टार …{Loading}…

श्वो न द्रष्टार इति वा २५

26 एकप्रकरणे चोद्यमानानि प्रधानानि …{Loading}…

एक-प्रकरणे चोद्यमानानि प्रधानानि समानविधानानि २६

27 प्रकरणेन विधयो बध्यन्ते …{Loading}…

प्रकरणेन विधयो बध्यन्ते २७

28 अनिर्देशात्साधारणानि …{Loading}…

अनिर्देशात्साधारणानि २८

29 निर्देशाद्व्यवतिष्ठन्ते …{Loading}…

निर्देशाद्व्यवतिष्ठन्ते २९

30 आग्नेयो ऽष्टाकपालोऽग्नीषोमीय एकादशकपाल …{Loading}…

आग्नेयो ऽष्टाकपालोऽग्नीषोमीय एकादशकपाल उपांशुयाजश्च पौर्णमास्यां प्रधानानि ३०

31 तदङ्गमितरे होमाः …{Loading}…

तदङ्गमितरे होमाः ३१

32 आग्नेयोऽष्टाकपाल ऐन्द्राग्न एकादशकपालो …{Loading}…

आग्नेयोऽष्टाकपाल ऐन्द्राग्न एकादशकपालो द्वादशकपालो वा मावास्यायामसोमयाजिनः ३२

33 सान्नाय्यन् द्वितीयं सोमयाजिनः …{Loading}…

सान्नाय्यं द्वितीयं सोमयाजिनः ३३

34 नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो …{Loading}…

नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यते ३४

35 नैन्द्राग्नः सन्नयतो वर्णाविशेषेण …{Loading}…

नैन्द्राग्नः सन्नयतो वर्णाविशेषेण ३५

36 पितृयज्ञः स्वकालविधानादनङ्गं स्यात् …{Loading}…

पितृयज्ञः स्वकालविधानादनङ्गं स्यात् ३६

37 तुल्यवच्च प्रसङ्ख्यानात् …{Loading}…

तुल्यवच्च प्रसङ्ख्यानात् ३७

38 प्रतिषिद्धे च दर्शनात् …{Loading}…

प्रतिषिद्धे च दर्शनात् ३८

39 सहाङ्गम् प्रधानम् …{Loading}…

सहाङ्गं प्रधानम् ३९

इति द्वितीया कण्डिका


  1. See II.14.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XVII.17.8. ↩︎ ↩︎ ↩︎

  3. See X.6.4. ↩︎

  4. See II.21.7. ↩︎

  5. See e.g. IX.13.8; IX.16.2. ↩︎

  6. See e.g. II.21.7. ↩︎

  7. See e.g. III.18.4. ↩︎

  8. See e.g. I.4.9. ↩︎

  9. Cp. TĀ V.8.9. ↩︎