०१

01 यज्ञं व्याख्यास्यामः …{Loading}…

यज्ञं व्याख्यास्यामः १

02 स त्रयाणां वर्णानाम् …{Loading}…

स त्रयाणां वर्णानां ब्राह्मण-राजन्ययोर् वैश्यस्य च २

03 स त्रिभिर्वेदैर्विधीयते …{Loading}…

स त्रिभिर् वेदैर् विधीयते ३

04 ऋग्वेदयजुर्वेदसामवेदैः …{Loading}…

ऋग्वेदयजुर्वेदसामवेदैः ४

05 ऋग्वेदयजुर्वेदाभ्यान् दर्शपूर्णमासौ …{Loading}…

ऋग्वेद-यजुर्वेदाभ्यां दर्श-पूर्णमासौ ५

06 यजुर्वेदेनाग्निहोत्रम् …{Loading}…

यजुर्-वेदेनाग्नि-होत्रम् ६

07 सर्वैरग्निष्टोमः …{Loading}…

सर्वैरग्निष्टोमः ७

08 उच्चैरृग्वेदसामवेदाभ्याङ् क्रियते …{Loading}…

उच्चैर् ऋग्वेद-सामवेदाभ्यां क्रियते ८

09 उपांशु यजुर्वेदेन …{Loading}…

उपांशु यजुर्वेदेन ९

10 अन्यत्राश्रुतप्रत्याश्रुतप्रवरसंवादसम्प्रैषैश्च …{Loading}…

अन्यत्राश्रुत-प्रत्याश्रुत-प्रवर-संवाद-संप्रैषैश् च १०

11 अन्तरा सामिधेनीष्वनूच्यम् …{Loading}…

अन्तरा सामिधेनीष्व् अनूच्यम् ११

12 मन्द्रेण प्रागाज्यभागाभ्याम् प्रातःसवने …{Loading}…

मन्द्रेण प्राग् आज्यभागाभ्यां प्रातःसवने च १२

13 मध्यमेन प्राक् स्विष्टकृतो …{Loading}…

मध्यमेन प्राक् स्विष्टकृतो माध्यंदिने च १३

14 क्रुष्टेन शेषे तृतीयसवने …{Loading}…

क्रुष्टेन शेषे तृतीयसवने च १४

15 वाक्सन्द्रवश्च तद्वत् …{Loading}…

वाक्संद्रवश्च तद्वत् +++(=मन्द्रस्वरोक्ता मन्दा, कृष्टेनोक्ता वेगवती …)+++ १५

16 ऋग्वेदेन होता करोति …{Loading}…

ऋग्वेदेन होता करोति १६

17 सामवेदेनोद्गाता …{Loading}…

सामवेदेनोद्गाता १७

18 यजुर्वेदेनाध्वर्युः …{Loading}…

यजुर्वेदेनाध्वर्युः १८

19 सर्वैर्ब्रह्मा …{Loading}…

सर्वैर्ब्रह्मा १९

20 वचनाद्विप्रतिषेधाद्वान्यः कुर्यात् …{Loading}…

वचनाद्विप्रतिषेधाद्वान्यः कुर्यात् २०

21 ब्राह्मणानामार्त्विज्यम् …{Loading}…

ब्राह्मणानामार्त्विज्यम् २१

22 सर्वक्रतूनामग्नयः सकृदाहिताः …{Loading}…

सर्वक्रतूनामग्नयः सकृदाहिताः २२

23 जुहोतीति चोद्यमाने सर्पिराज्यम् …{Loading}…

जुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयात् +++(=जानीयात्)+++ २३

24 अध्वर्युतङ् कर्तारम् …{Loading}…

अध्वर्युं कर्तारम् २४

25 जुहूम् पात्रम् …{Loading}…

जुहूं पात्रम् २५

26 व्यापृतायां स्रुवेण …{Loading}…

व्यापृतायां स्रुवेण २६

27 आहवनीये प्रदानम् …{Loading}…

आहवनीये प्रदानम् २७

28 आधानप्रभृति यावज्जीवम् पात्राणि …{Loading}…

आधानप्रभृति यावज्जीवं पात्राणि धार्यन्ते २८

29 तेषाम् प्रतितन्त्रं संस्कारः …{Loading}…

तेषां प्रतितन्त्रं संस्कारः २९

30 मन्त्रब्राह्मणे यज्ञस्य प्रमाणम् …{Loading}…

मन्त्रब्राह्मणे यज्ञस्य प्रमाणम् ३०

31 मन्त्रब्राह्मणयोर्वेदनामधेयम् …{Loading}…

मन्त्रब्राह्मणयोर् वेदनामधेयम् ३१

32 कर्मचोदना ब्राह्मणानि …{Loading}…

कर्मचोदना ब्राह्मणानि ३२

33 ब्राह्मणशेषोऽर्थवादो निन्दा प्रशंसा …{Loading}…

ब्राह्मणशेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च ३३

34 अतोऽन्ये मन्त्राः …{Loading}…

अतोऽन्ये मन्त्राः ३४

35 अनाम्नातास्त्वमन्त्रा यथा प्रवरोहनामधेयग्रहणानीति …{Loading}…

अनाम्नातास् त्वमन्त्रा यथा प्रवर+ऊह-नामधेयग्रहणानीति ३५

36 रथशब्दो दुन्दुभिशब्दश्च …{Loading}…

रथशब्दो दुन्दुभिशब्दश्च ३६

37 स्वाध्यायेऽनध्यायो मन्त्राणान् न …{Loading}…

स्वाध्यायेऽनध्यायो मन्त्राणां, न कर्मण्यर्थान्तरत्वात् +++(=प्रयोजनान्तरत्वात्)+++ ३७

38 एकमन्त्राणि कर्माणि …{Loading}…

एकमन्त्राणि कर्माणि ३८

39 अपि सङ्ख्यायुक्तचेष्टापृथक्त्वनिर्वर्तीनि …{Loading}…

अपि संख्या-युक्त-चेष्टा-पृथक्त्व-निर्वर्तीनि +++(= सङ्ख्यायुक्तानि यथा ““त्रिः प्रोक्षति”"। चेष्टा-पृथक्त्वनिर्वर्तीनि यथा मुसलाहरण-प्रहरणादिना सहावहननम्)३९

40 कण्डूयनस्वप्ननदीतराववर्षणामेध्यप्रतिमन्त्रणेषु च तद्वत्कालाव्यवेतेषु …{Loading}…

कण्डूयन-स्वप्न-नदीतर+अववर्षणामेध्य-प्रतिमन्त्रणेषु च तद्वत् कालाव्यवेतेषु ४०

41 प्रयाणे त्वार्थनिर्वृत्तेः …{Loading}…

+++(एकमन्त्राणि)+++ प्रयाणे त्वार्थनिर्वृत्तेः (=प्रयोजननिवृत्तेः यावत्, यथा सकृदेव प्रयाणमन्त्रः क्वचित्) ४१

42 असन्निपातिकर्मसु च तद्वत् …{Loading}…

असंनिपातिकर्मसु (=द्रव्येषु यानि विकारान् न जनयन्ति)+++ च तद्वत् ४२

43 हविष्कृदध्रिगुपुरोऽनुवाक्यामनोतस्यावृत्तिर्भिन्नकालेषु …{Loading}…

हविष्कृद्-अध्रिगु-पुरोऽनुवाक्यामनोतस्यावृत्तिर् भिन्नकालेषु ४३

44 वचनादेकङ् कर्म बहुमन्त्रम् …{Loading}…

वचनादेकं कर्म बहुमन्त्रम् ४४

इति प्रथमा कण्डिका


  1. See Hillebrandt, Das Altind. Neu- and Vollmondsopfer, p. 94. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See e.g. II.16.5ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See e.g. III.8.8-9. ↩︎ ↩︎ ↩︎

  4. See e.g. I.20.1. ↩︎ ↩︎

  5. sec X. 15.7. ↩︎

  6. Thus if one scratches different parts of the body one immediately after another, one has to utter the formula only for once. ↩︎