१४

01 तुरायणेन सर्वामृद्धिमृध्नोति ...{Loading}...

तुरायणेन सर्वामृद्धिमृध्नोति १

02 अदीक्षितः कृष्णाजिनम् प्रतिमुञ्चते ...{Loading}...

अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते । मानुषीं तेनर्द्धिमृध्नोति २

03 यत्तपस्तप्यते दैवीन् तेन ...{Loading}...

यत्तपस्तप्यते दैवीं तेन ३

04 हविरुच्छिष्टव्रतो भवति ...{Loading}...

हविरुच्छिष्टव्रतो भवति ४

05 संवत्सरं सवनविधा इष्टीर्निर्वपति ...{Loading}...

संवत्सरं सवनविधा इष्टीर्निर्वपति । आग्नेयोऽष्टाकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः ५

06 चरुरित्येके ...{Loading}...

चरुरित्येके ६

07 प्रातःसवने वा सर्वा ...{Loading}...

प्रातःसवने वा सर्वा ७

08 सर्पाणां सत्त्रेणाप जराङ् ...{Loading}...

सर्पाणां सत्त्रेणाप जरां घ्नते । आदित्यानामिवैषां प्रकाशः ८

09 सर्वो दशदशी संवत्सरो ...{Loading}...

सर्वो दशदशी संवत्सरो द्वादशो विषुवान् ९

10 त्रिषंवत्सरङ् गवामयनमादित्यानामङ्गिरसाम् ...{Loading}...

त्रिषंवत्सरं गवामयनमादित्यानामङ्गिरसाम् १०

11 प्रजातिम् भूमानङ् गच्छन्त्यभि ...{Loading}...

प्रजातिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु उप्रतितिष्ठन्ति ११

12 प्रजापतेः सहस्रसंवत्सरेण प्रजापतेरृद्धिमृध्नुवन्ति ...{Loading}...

प्रजापतेः सहस्रसंवत्सरेण प्रजापतेरृद्धिमृध्नुवन्ति १२

13 अतिरात्रः सहस्रन् त्रिवृतः ...{Loading}...

अतिरात्रः सहस्रं त्रिवृतः संवत्सरा अतिरात्रः १३

14 पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः ...{Loading}...

पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशाः पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविंशा विश्वसृजां सहस्रसंवत्सरम् १४

15 एतेन वै विश्वसृज ...{Loading}...

एतेन वै विश्वसृज इदं विश्वमसृजन्त । यद्विश्वमसृजन्त तस्माद्विश्वसृजः । विश्वमेनाननुप्रजायते १५

16 तत्र श्लोकः विश्वसृजः ...{Loading}...

तत्र श्लोकः । विश्वसृजः प्रथमा सत्त्रमासत सहस्रसमं प्रसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपा हिरण्मयः शकुनिर्ब्रह्मनामेति १६

17 ब्रह्मणः सायुज्यं सलोकतां ...{Loading}...

ब्रह्मणः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति य एतदुपयन्ति १७

इति चतुर्दशी कण्डिका इति त्रयोविंशः प्रश्नः


  1. See TMB XXV.14.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. XXII .9.1ff. ↩︎

  3. XXII .9.10ff. ↩︎

  4. Cf. TMB XXV.16.1. ↩︎