01 तुरायणेन सर्वामृद्धिमृध्नोति …{Loading}…
तुरायणेन सर्वामृद्धिमृध्नोति १
थिते
- BY means of the (performance of the) Turāyaṇa (the course of Tura) one prospers all the prosperity.
तुरायणेन सर्वामृद्धिमृध्नोति १
02 अदीक्षितः कृष्णाजिनम् प्रतिमुञ्चते …{Loading}…
अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते । मानुषीं तेनर्द्धिमृध्नोति २
थिते
- While one is (still) unconsecrated, one should wear black antelope-skin. Thereby one obtains the human prosperity.
अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते । मानुषीं तेनर्द्धिमृध्नोति २
03 यत्तपस्तप्यते दैवीन् तेन …{Loading}…
यत्तपस्तप्यते दैवीं तेन ३
थिते
- Whatever penance one practises one obtaiins the divine prosperity thereby.
यत्तपस्तप्यते दैवीं तेन ३
04 हविरुच्छिष्टव्रतो भवति …{Loading}…
हविरुच्छिष्टव्रतो भवति ४
थिते
- One eats the remnants of the offering-material as the fast-food.
हविरुच्छिष्टव्रतो भवति ४
05 संवत्सरं सवनविधा इष्टीर्निर्वपति …{Loading}…
संवत्सरं सवनविधा इष्टीर्निर्वपति । आग्नेयोऽष्टाकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः ५
थिते
- One performs the Iṣṭis in the manner of Soma-pressings every day for one year: (Thus one should offer a sacrificial bread) prepared on eight potsherds to Agni (at the time of the morning pressing);… prepared on eleven potsherds to Indra (at the time of the midday pressing);… prepared on twelve potsherds to Viśvedevas (at the time of the third pressing).
संवत्सरं सवनविधा इष्टीर्निर्वपति । आग्नेयोऽष्टाकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः ५
06 चरुरित्येके …{Loading}…
चरुरित्येके ६
थिते
- According to some1 (it should be) rice-pap (and not sacrificial bread in each case).
चरुरित्येके ६
07 प्रातःसवने वा सर्वा …{Loading}…
प्रातःसवने वा सर्वा ७
थिते
- Or all the offerings (should be performed) at the time of morning pressing (only).
प्रातःसवने वा सर्वा ७
08 सर्पाणां सत्त्रेणाप जराङ् …{Loading}…
सर्पाणां सत्त्रेणाप जरां घ्नते । आदित्यानामिवैषां प्रकाशः ८
थिते
- (The performers) destory their old age by means of the (performance of the) sacrificial session of serpents; their lustre will be similar to that of suns as it were.
सर्पाणां सत्त्रेणाप जरां घ्नते । आदित्यानामिवैषां प्रकाशः ८
09 सर्वो दशदशी संवत्सरो …{Loading}…
सर्वो दशदशी संवत्सरो द्वादशो विषुवान् ९
थिते
- (In this session) the whole year consists of days on which ten-versed-stoma is used; on the Viṣuvat day twelve versed-stoma is used.1
सर्वो दशदशी संवत्सरो द्वादशो विषुवान् ९
10 त्रिषंवत्सरङ् गवामयनमादित्यानामङ्गिरसाम् …{Loading}…
त्रिषंवत्सरं गवामयनमादित्यानामङ्गिरसाम् १०
त्रिषंवत्सरं गवामयनमादित्यानामङ्गिरसाम् १०
11 प्रजातिम् भूमानङ् गच्छन्त्यभि …{Loading}…
प्रजातिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु उप्रतितिष्ठन्ति ११
थिते
- (The performers) get progeny, become many, go to the heaven, become established in these worlds (by means of the performance of this sacrificial session).1
प्रजातिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु उप्रतितिष्ठन्ति ११
12 प्रजापतेः सहस्रसंवत्सरेण प्रजापतेरृद्धिमृध्नुवन्ति …{Loading}…
प्रजापतेः सहस्रसंवत्सरेण प्रजापतेरृद्धिमृध्नुवन्ति १२
थिते
- (The performers) prosper the prosperty of Prajāpati by means of the (performance of the sacrificial session called) Prajāpateh sahasra-saṁvatsara (thousand-years-sacrificial session of Prajāpati)1.
प्रजापतेः सहस्रसंवत्सरेण प्रजापतेरृद्धिमृध्नुवन्ति १२
13 अतिरात्रः सहस्रन् त्रिवृतः …{Loading}…
अतिरात्रः सहस्रं त्रिवृतः संवत्सरा अतिरात्रः १३
थिते
- (It consists) of an Atirātra, one thousand years of days on which nine-versed-stoma is used, and an Atirātra.1
अतिरात्रः सहस्रं त्रिवृतः संवत्सरा अतिरात्रः १३
14 पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः …{Loading}…
पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशाः पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविंशा विश्वसृजां सहस्रसंवत्सरम् १४
थिते
- (The sacrificial session called) Viṣvasr̥jāṁ sahasrasaṁvatsara (one-thousand-years-sacrificial-session of All-creators) (consists of) (two hundred fifty-years of days on which) nine versed-stoma is used, (two-hundred-fifty-years) fifteen-versed stoma is used, (two-hundred-fifty-years) seventeen-versed stoma is used, (two-hundred-fifty-years) twenty-one-versed stoma is used.1
पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशाः पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविंशा विश्वसृजां सहस्रसंवत्सरम् १४
15 एतेन वै विश्वसृज …{Loading}…
एतेन वै विश्वसृज इदं विश्वमसृजन्त । यद्विश्वमसृजन्त तस्माद्विश्वसृजः । विश्वमेनाननुप्रजायते १५
थिते
- By means of this sacrificial-session the All-creators created all (this universe). They are (called) All-creators because they created all. All (the world) is created after them (the performers of this sacrificial-session).1
एतेन वै विश्वसृज इदं विश्वमसृजन्त । यद्विश्वमसृजन्त तस्माद्विश्वसृजः । विश्वमेनाननुप्रजायते १५
16 तत्र श्लोकः विश्वसृजः …{Loading}…
तत्र श्लोकः । विश्वसृजः प्रथमा सत्त्रमासत सहस्रसमं प्रसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपा हिरण्मयः शकुनिर्ब्रह्मनामेति १६
थिते
- There is a verse (in this connection:) The first All creaters performed a sacrificial-session consisting of thousand years, while peforming soma-pressing; then the protector of the world, the golden bird, called Brahman was born.
तत्र श्लोकः । विश्वसृजः प्रथमा सत्त्रमासत सहस्रसमं प्रसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपा हिरण्मयः शकुनिर्ब्रह्मनामेति १६
17 ब्रह्मणः सायुज्यं सलोकतां …{Loading}…
ब्रह्मणः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति य एतदुपयन्ति १७
थिते
- Those who perform this sacrificial session obtain association with the Brahman; they go to the world of Brahman1.
ब्रह्मणः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति य एतदुपयन्ति १७
इति चतुर्दशी कण्डिका इति त्रयोविंशः प्रश्नः