१३

01 आक्रोशन्तः प्राञ्चो यान्ति …{Loading}…

आक्रोशन्तः प्राञ्चो यान्ति १

02 दृषद्वत्या अप्ययेऽपोनप्त्रीयञ् चरुन् …{Loading}…

दृषद्वत्या अप्ययेऽपोनप्त्रीयं चरुं निरुप्यातियन्ति २

03 दशसु गोषु शते …{Loading}…

दशसु गोषु शते वर्षभमुत्सृजन्ति ३

04 यदा दशशतङ् कुर्वन्त्यथैकमुत्थानं …{Loading}…

यदा दशशतं कुर्वन्त्यथैकमुत्थानं यदा वा शतं सहस्रम् । यदा वा गृहपतिर्म्रियेत यदा वा सर्वस्वं जीयेरन्यदा वा प्लाक्षं प्रस्रवणं प्राप्नुवन्ति ४

05 प्लाक्षम् प्रस्रवणम् प्राप्याग्नये …{Loading}…

प्लाक्षं प्रस्रवणं प्राप्याग्नये कामायेष्टिं निर्वपन्ति ५

06 तस्यामश्वाम् पुरुषीञ् च …{Loading}…

तस्यामश्वां पुरुषीं च धेनुके दत्त्वा कारपचवं प्रति यन्मुनामवभृथमभ्य वयन्ति ६

07 द्वितीये त्रिवृद्बृहपतिसवो गोआयुषी …{Loading}…

द्वितीये त्रिवृद्बृहपतिसवो गोआयुषी इन्द्रकुक्षी ७

08 अत्यन्याः प्रजा भवन्त्योजिष्ठा …{Loading}…

अत्यन्याः प्रजा भवन्त्योजिष्ठा भवन्ति ८

09 तृतीये ज्योतिर्गौरायुरयनं विश्वजिदभिजिताविन्द्रकुक्षी …{Loading}…

तृतीये ज्योतिर्गौरायुरयनं विश्वजिदभिजिताविन्द्रकुक्षी ९

10 अर्यम्णः पन्थानमारोहन्ति देवलोकं …{Loading}…

अर्यम्णः पन्थानमारोहन्ति देवलोकं यन्ति १०

11 दार्षद्वते संवत्सरम् ब्राह्मणस्य …{Loading}…

दार्षद्वते संवत्सरं ब्राह्मणस्य गा रक्षेदनष्टगुः ११

12 संवत्सरं व्यर्णे नैतन्धवे …{Loading}…

संवत्सरं व्यर्णे नैतन्धवे ऽग्निमिन्धीत १२

13 परिणह्यग्निमाधाय दृषद्वत्या दक्षिणेन …{Loading}…

परिणह्यग्निमाधाय दृषद्वत्या दक्षिणेन कूलेनाग्नेयेनाष्टाकपालेन शम्यापरासीयात् १३

14 त्रिःप्लक्षम् प्रति यमुनामवभृथमभ्यवैति …{Loading}…

त्रिःप्लक्षं प्रति यमुनामवभृथमभ्यवैति १४

15 तदैव मनुष्येभ्यस्तिरो भवति …{Loading}…

तदैव मनुष्येभ्यस्तिरो भवति १५

इति त्रयोदशी कण्डिका


  1. Cf. TS VII.2.1.3-4; cp. JB II.398. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. XXIII.12.9ff. Thus one has to throw a peg to the east and perform the ritual where it falls. This goes on everyday. ↩︎