१२

01 साध्यानां शतसंवत्सरेण सगवाः ...{Loading}...

साध्यानां शतसंवत्सरेण सगवाः सपुरुषाः स्वर्गं लोकं यन्ति १

02 अग्नेः सहस्रसाव्येन सर्वस्यान्नाद्यस्य ...{Loading}...

अग्नेः सहस्रसाव्येन सर्वस्यान्नाद्यस्य प्रसवं गच्छन्ति २

03 अतिरात्रः सहस्रन् त्रिवृन्त्यहान्यतिरात्रः ...{Loading}...

अतिरात्रः सहस्रं त्रिवृन्त्यहान्यतिरात्रः ३

04 त्रीणि सारस्वतानि सत्त्राणि ...{Loading}...

त्रीणि सारस्वतानि सत्त्राणि । मित्रावरुणयोः प्रथममिन्द्राग्नियोर्द्वितीयमर्यम्णस्तृतीयम् ४

05 सरस्वत्या उपमज्जने दीक्षन्ते ...{Loading}...

सरस्वत्या उपमज्जने दीक्षन्ते ५

06 प्रायणीयया प्रचर्य राजानङ् ...{Loading}...

प्रायणीयया प्रचर्य राजानं क्रीत्वोपनह्य निदधति ६

07 द्वादशभिरुपसद्भिश्चरित्वा प्रायणीयमतिरात्रमुपेत्य तदहर्वत्सानपाकुर्वन्ति ...{Loading}...

द्वादशभिरुपसद्भिश्चरित्वा प्रायणीयमतिरात्रमुपेत्य तदहर्वत्सानपाकुर्वन्ति ७

08 संस्थिते प्रायणीये सान्नाय्येन ...{Loading}...

संस्थिते प्रायणीये सांनाय्येन यजन्ते ८

09 तस्मिन्संस्थितेऽध्वर्युः शम्याम् प्राचः ...{Loading}...

तस्मिन्संस्थितेऽध्वर्युः शम्यां प्राचः प्रास्यति ९

10 सा यत्र निपतति ...{Loading}...

सा यत्र निपतति तद्गार्हपत्यः १०

11 तस्मात्षट्त्रिंशतम् प्राचः प्रक्रमान्प्रक्रामति ...{Loading}...

तस्मात्षट्त्रिंशतं प्राचः प्रक्रमान्प्रक्रामति ११

12 तदाहवनीयः ...{Loading}...

तदाहवनीयः १२

13 चक्रीवन्ति सदोहविर्धानान्याग्नीध्रञ् च ...{Loading}...

चक्रीवन्ति सदोहविर्धानान्याग्नीध्रं च १३

14 आश्वत्थि हविर्धानमाग्नीध्रञ् च ...{Loading}...

आश्वत्थि हविर्धानमाग्नीध्रं च १४

15 उलुखलबुध्नो यूपः प्रकृष्य ...{Loading}...

उलुखलबुध्नो यूपः प्रकृष्य उपोप्त एव १५

16 नोपरवान्खनन्ति ...{Loading}...

नोपरवान्खनन्ति १६

17 त एतमापूर्यमाणपक्षमामावास्येन हविषा ...{Loading}...

त एतमापूर्यमाणपक्षमामावास्येन हविषा यान्ति १७

18 पौर्णमास्याङ् गोष्टोमम् बृहत्सामानमुपयन्ति ...{Loading}...

पौर्णमास्यां गोष्टोमं बृहत्सामानमुपयन्ति १८

19 तस्मिन्संस्थिते पौर्णमासेन यजन्ते ...{Loading}...

तस्मिन्संस्थिते पौर्णमासेन यजन्ते १९

20 त एतमपरपक्षम् पौर्णमासेन ...{Loading}...

त एतमपरपक्षं पौर्णमासेन हविषा यान्ति २०

21 अमावास्यायामायुष्टोमं रथन्तरसामानमुपयन्ति ...{Loading}...

अमावास्यायामायुष्टोमं रथन्तरसामानमुपयन्ति २१

22 तस्मिन्संस्थिते सान्नाय्येन यजन्ते ...{Loading}...

तस्मिन्संस्थिते सान्नाय्येन यजन्ते २२

23 त एवमेव व्यत्यासं ...{Loading}...

त एवमेव व्यत्यासं सरस्वत्या दक्षिणेन कूलेन २३

इति द्वादशी कण्डिका