११

01 तपश्चितामयनं स्वर्गकामा उपेयुः …{Loading}…

तपश्चितामयनं स्वर्गकामा उपेयुः १

02 संवत्सरन् दीक्षाः संवत्सरमुपसदः …{Loading}…

संवत्सरं दीक्षाः । संवत्सरमुपसदः २

03 चतुरश्चतुरो मासानेकैकेनोपसन्मन्त्रेण जुहोति …{Loading}…

चतुरश्चतुरो मासानेकैकेनोपसन्मन्त्रेण जुहोति ३

04 अनूपसदमग्निञ् चिनोति …{Loading}…

अनूपसदमग्निं चिनोति ४

05 द्वौद्वौ मासावेकैका चितिः …{Loading}…

द्वौद्वौ मासावेकैका चितिः । चतुर उत्तमा ५

06 चतुस्तनन् त्रिस्तनन् द्विस्तनमेकस्तनमिति …{Loading}…

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्रींस्त्रीन्मासान्व्रतानि ६

07 संवत्सरम् प्रसुताः …{Loading}…

संवत्सरं प्रसुताः ७

08 प्रजापतेर्द्वादशसंवत्सरेण प्रजापतेरृद्धिमृध्नुवन्ति …{Loading}…

प्रजापतेर्द्वादशसंवत्सरेण प्रजापतेरृद्धिमृध्नुवन्ति ८

09 त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशास्त्रयः …{Loading}…

त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविंशाः ९

10 एतदेव नैमिषीयाणां स्वर्गकामा …{Loading}…

एतदेव नैमिषीयाणां स्वर्गकामा उपेयुः १०

11 नव त्रिवृतः संवत्सरा …{Loading}…

नव त्रिवृतः संवत्सरा नव पञ्चदशा नव सप्तदशा नवैकविंशाः शाक्त्यानां षट्त्रिंशत्संवत्सरं तरसपुरोडाशं काप्याध्वर्यवमागस्त्यगृहपतिकम् ११

12 संस्थितेसंस्थितेऽहनि गृहपतिर्मृगयां याति …{Loading}…

संस्थितेसंस्थितेऽहनि गृहपतिर्मृगयां याति १२

13 स यान्मृगान्हन्ति तेषान् …{Loading}…

स यान्मृगान्हन्ति तेषां तरसाः पुरोडाशा भवन्ति १३

14 एतेन ह वै …{Loading}…

एतेन ह वै शाक्त्यो गौरिवीतिस्तरसपुरोडाश आर्ध्नोद्देवलोके च मनुष्यलोके चर्द्धिमृध्नुवन्ति १४

15 पञ्चविंशतिस्त्रिवृतः संवत्सराः पञ्चविंशतिः …{Loading}…

पञ्चविंशतिस्त्रिवृतः संवत्सराः पञ्चविंशतिः पञ्चदशाः पञ्चविंशतिः सप्तदशाः पञ्चविंशतिरेकविंशाः १५

इत्येकादशी कण्डिका