१०

01 दृतिवातवतोरयनेन यङ् कामङ् ...{Loading}...

दृतिवातवतोरयनेन यं कामं कामयन्ते तमभ्यश्नुवते १

02 अतिरात्रावभितः ...{Loading}...

अतिरात्रावभितः २

03 त्रिवृता मासम् पञ्चदशेन ...{Loading}...

त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासम् ३

04 अथ विषुवान्महाव्रतं वा ...{Loading}...

अथ विषुवान्महाव्रतं वा ४

05 एत एवोत्तरे मासास्त्रयस्त्रिंशारम्भणास्त्रिवृदुत्तमाः ...{Loading}...

एत एवोत्तरे मासास्त्रयस्त्रिंशारम्भणास्त्रिवृदुत्तमाः ५

06 कुण्डपायिनामयने मासन् दीक्षिता ...{Loading}...

कुण्डपायिनामयने मासं दीक्षिता भवन्ति ६

07 प्रायणीयया प्रचर्य राजानङ् ...{Loading}...

प्रायणीयया प्रचर्य राजानं क्रीत्वोपनह्य निदधति ७

08 द्वादशभिरुपसद्भिश्चरित्वा हविर्यज्ञैर्यजन्ते ...{Loading}...

द्वादशभिरुपसद्भिश्चरित्वा हविर्यज्ञैर्यजन्ते ८

09 मासमग्निहोत्रञ् जुह्वति मासन् ...{Loading}...

मासमग्निहोत्रं जुह्वति । मासं दर्शपूर्णमासाभ्यां यजन्ते मासं वैश्वदेवेन मासं वरुणप्रघासैर्मासं साकमेधैर्मासं शुनासीरीयेण । त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासम् । अष्टादश त्रयस्त्रिंशान्यहानि द्वादशाहस्य दशाहानि महाव्रतमतिरात्रश्चेति द्वादश मासाः ९

10 सर्व एव भवन्ति ...{Loading}...

सर्व एव भवन्ति सर्वामृद्धिमृध्नुवन्ति १०

11 अत्सरुकैश्चमसैर्भक्षयन्ति ...{Loading}...

अत्सरुकैश्चमसैर्भक्षयन्ति ११

12 यो होता सोऽध्वर्युः ...{Loading}...

यो होता सोऽध्वर्युः स पोता । य उद्गाता स नेष्टा सोऽच्छावाकः । यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्ता । यः प्रस्तोता स ब्राह्मणाच्छंसी स ग्रावस्तुत । यः प्रतिप्रस्थाता सोऽग्नीत्स उन्नेता । गृहपतिर्गृहपतिः । सुब्रह्मण्यः सुब्रह्मण्यः १२

इति दशमी कण्डिका


  1. Cp. TMB XXV.3.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎