०९

01 आदित्यानामयनेन प्रजातिम् भूमानङ् ...{Loading}...

आदित्यानामयनेन प्रजातिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु प्रतितिष्ठन्ति १

02 गवामयनेन व्याख्यातम् ...{Loading}...

गवामयनेन व्याख्यातम् २

03 सर्वेऽभिप्लवाः ...{Loading}...

सर्वेऽभिप्लवाः ३

04 मासास्त्रिवृत्पञ्चदशा मध्येपृष्ठ्या भवन्ति ...{Loading}...

मासास्त्रिवृत्पञ्चदशा मध्येपृष्ठ्या भवन्ति ४

05 अभिजितः स्थाने त्रिवृद्बृहस्पतिसवः ...{Loading}...

अभिजितः स्थाने त्रिवृद्बृहस्पतिसवः । विश्वजितः स्थाने पञ्चदश इन्द्रस्तोम इक्थ्यः ५

06 तस्मादनन्तरम् पृष्ठ्याभिप्लवावेपेत्य द्वादशाहीयस्य ...{Loading}...

तस्मादनन्तरं पृष्ठ्याभिप्लवावेपेत्य द्वादशाहीयस्य दशरात्रस्य व्यूढा अग्निष्टोमास्त्रिवृतः ६

07 उद्भिद्वलभिद्भ्यामिति द्व्यूनो मासः ...{Loading}...

उद्भिद्वलभिद्भ्यामिति द्व्यूनो मासः पूर्यते ७

08 आयुषङ् गाञ् चोपेत्य ...{Loading}...

आयुषं गां चोपेत्य छन्दोमदशरात्रः प्रत्यङ्ङष्टाचत्वारिंशं चतुश्चत्वारिंशं चत्वारिंशं षट्त्रिंशं द्वात्रिंशं त्रिंशं द्वे अष्टाविंशे पञ्चविंशं चतुर्विंशम् ८

09 महाव्रतोदयनीयाभ्यामिति द्व्यूनो मासः ...{Loading}...

महाव्रतोदयनीयाभ्यामिति द्व्यूनो मासः पूर्यते ९

10 एतेनाङ्गिरसामयनं व्याख्यातम् ...{Loading}...

एतेनाङ्गिरसामयनं व्याख्यातम् १०

11 स्वर्गकामा उउपेयुः ...{Loading}...

स्वर्गकामा उउपेयुः ११

12 त्रिवृतोऽभिप्लवाः ...{Loading}...

त्रिवृतोऽभिप्लवाः १२

13 मासाः पुरस्तात्पृष्ठ्या भवन्ति ...{Loading}...

मासाः पुरस्तात्पृष्ठ्या भवन्ति प्राग्विषुवतः । ऊर्ध्वं विषुवत उपरिष्टात्पृष्ठ्याः पञ्चदशिनः १३

14 छन्दोमदशरात्र ऊर्ध्वस्तोमश्चतुर्विंशम् पञ्चविंशन् ...{Loading}...

छन्दोमदशरात्र ऊर्ध्वस्तोमश्चतुर्विंशं पञ्चविंशं द्वे अष्टाविंशे त्रिंशं द्वात्रिंशं षट्त्रिंशं चत्वारिंशं चतुश्चत्वारिंशमष्टाचत्वारिंशम् १४

15 महाव्रतोदयनीयाभ्यामिति द्व्यूनो मासः ...{Loading}...

महाव्रतोदयनीयाभ्यामिति द्व्यूनो मासः पूर्यते १५

16 अथैकेषाम् पृष्ठ्या आक्ष्यन्ति ...{Loading}...

अथैकेषाम् । पृष्ठ्या आक्ष्यन्ति चादित्यानामयनमभिप्लवा आक्ष्यन्ति चाङ्गिरसामयनम् । यदन्यत्पृष्ठाभिप्लवेभ्यस्तान्याक्ष्यन्तीत्याचक्षते १६

इति नवमी कण्डिका


  1. For this see TMB XXI.15.1-23.14. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XXII. 7.5-16. ↩︎ ↩︎

  3. See XXII.10.3. ↩︎

  4. For this Sūtra cf. TMB XXV.1.1. ↩︎