०७

01 सप्तैकस्मान्नपञ्चाशद्रात्रा विधृतयः ...{Loading}...

सप्तैकस्मान्नपञ्चाशद्रात्रा विधृतयः १

02 प्रथमेन वि पाप्मना ...{Loading}...

प्रथमेन वि पाप्मना भ्रातृव्येणावर्तन्ते २

03 अतिरात्रस्त्रयस्त्रिवृतोऽग्निष्टोमा अतिरात्रो दश ...{Loading}...

अतिरात्रस्त्रयस्त्रिवृतोऽग्निष्टोमा अतिरात्रो दश पञ्चदशा उक्थ्याः षोडशिमद्दशममहरतिरात्रो द्वादश सप्तदशा उक्थ्या अतिरात्रह् पृष्ठ्यः षडहोऽतिरात्रो द्वादशैकविंशा उक्थ्या अतिरात्रः ३

04 यमातिरात्रो द्वितीयः ...{Loading}...

यमातिरात्रो द्वितीयः ४

05 यमेवैषां श्रीर्भवति मित्रश्च ...{Loading}...

यमेवैषां श्रीर्भवति मित्रश्च वरुणश्च धाता चार्यमा चांशश्च भगश्चेन्द्रश्च विवस्वांश्चैतासां देवतानामृद्धिमृध्नुवन्ति ५

06 अतिरात्रो द्वावभिप्लवौ गोआयुषी ...{Loading}...

अतिरात्रो द्वावभिप्लवौ गोआयुषी द्वावभिप्लवावभिजिद्विश्वजिच्चातिरात्रावेकोऽभिप्लवः सर्वस्तोमो नवसप्तदशाश्चातिरात्रौ द्वादशाहस्य दशाहानि महाव्रतमतिरात्रश्च ६

07 आञ्जनाभ्यञ्जनस्तृतीयः ...{Loading}...

आञ्जनाभ्यञ्जनस्तृतीयः ७

08 यान्न जानीयुर्यदा चाञ्जतेऽभि ...{Loading}...

यान्न जानीयुर्यदा चाञ्जतेऽभि चाञ्जते जानन्त्येनान् । शुभमेवात्मन्दधते ८

09 गौल्गुलवेन प्रातःसवने सौगन्धिकेन ...{Loading}...

गौल्गुलवेन प्रातःसवने सौगन्धिकेन माध्यन्दिने पौतुद्रवेण तृतीयसवने ९

10 अतिरात्रश्चत्वारोऽभिप्लवाः सर्वस्तोमोऽतिरात्रो द्वावभिप्लवौ ...{Loading}...

अतिरात्रश्चत्वारोऽभिप्लवाः सर्वस्तोमोऽतिरात्रो द्वावभिप्लवौ द्वादशाहस्य दशाहान्यतिरात्रः १०

11 संवत्सरसम्मितश्चतुर्थः ...{Loading}...

संवत्सरसम्मितश्चतुर्थः ११

12 संवत्सरस्यर्द्धिमृध्नुवन्ति ...{Loading}...

संवत्सरस्यर्द्धिमृध्नुवन्ति १२

13 अतिरात्रश्चतुर्विंश उक्थ्य आरम्भणीयस्त्रिवृद्वा ...{Loading}...

अतिरात्रश्चतुर्विंश उक्थ्य आरम्भणीयस्त्रिवृद्वा त्रयोऽभिप्लवा अभिजित्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजिदेकोऽभिप्लव आबृत्त आयुर्गौर्द्वादशाहस्य दशाहानि महाव्रतमतिरात्रश्च १३

इति सप्तमी कण्डिका


  1. In TMB XXIV.11.4 only the first out of these is called Vidhr̥ti. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎