०५

01 एकत्रिंशद्रात्रमन्नाद्यकामा उपेयुः ...{Loading}...

एकत्रिंशद्रात्रमन्नाद्यकामा उपेयुः १

02 एता एव समहाव्रताः ...{Loading}...

एता एव समहाव्रताः २

03 द्वात्रिंशद्रात्रम् प्रतिष्ठाकामा उपेयुः ...{Loading}...

द्वात्रिंशद्रात्रं प्रतिष्ठाकामा उपेयुः ३

04 अतिरात्रो गोआयुषी त्रयोऽभिप्लवा ...{Loading}...

अतिरात्रो गोआयुषी त्रयोऽभिप्लवा द्वादशाहस्य दशाहान्यतिरात्रः ४

05 त्रयस्त्रयस्त्रिंशद्रात्राः ...{Loading}...

त्रयस्त्रयस्त्रिंशद्रात्राः ५

06 यङ् कामङ् कामयन्ते ...{Loading}...

यं कामं कामयन्ते तमभ्यश्नुवते ६

07 अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्र ...{Loading}...

अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्र एकः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः ७

08 द्वितीयम् ब्रह्मवर्चसकामा उपेयुः ...{Loading}...

द्वितीयं ब्रह्मवर्चसकामा उपेयुः ८

09 अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः ...{Loading}...

अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतमतिरात्रश्च ९

10 तृतीयमृद्धिकामा उपेयुः ...{Loading}...

तृतीयमृद्धिकामा उपेयुः १०

11 अतिरात्रस्त्रयः पञ्चाहा अतिरात्रस्त्रयः ...{Loading}...

अतिरात्रस्त्रयः पञ्चाहा अतिरात्रस्त्रयः पञ्चाहा अतिरात्रः ११

12 चतुस्त्रिंशद्रात्रमिन्द्रियकामा उपेयुः ...{Loading}...

चतुस्त्रिंशद्रात्रमिन्द्रियकामा उपेयुः १२

13 अतिरात्रो ज्योतिर्गौरायुस्त्र्यहस्त्रयोऽभिप्लवा द्वादशाहस्य ...{Loading}...

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहस्त्रयोऽभिप्लवा द्वादशाहस्य दशाहानि महाव्रतमतिरात्रश्च १३

इति पञ्चमी कण्डिका


  1. Cf. TMB XXIII.27.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TMB XXIV.1.1; TS VII.4.5.1ff. ↩︎ ↩︎