०४

01 संसदा चतुर्विंशतिरात्रेण स्वर्गे ...{Loading}...

संसदा चतुर्विंशतिरात्रेण स्वर्गे लोके सीदन्ति १

02 अतिरात्रश्चतुर्विंश उक्थ्य आरम्भणीयस्त्रिवृद्वा ...{Loading}...

अतिरात्रश्चतुर्विंश उक्थ्य आरम्भणीयस्त्रिवृद्वा पृष्ठ्यस्तोमः षडहस्त्रयस्त्रिंशमहरनिरुक्तं त्रयस्त्रिंशं निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशमहर्निरुक्तं त्रयस्त्रिंशमनिरुक्तं पृष्ठ्यस्तोमः षडहः प्रत्यङ् त्रिवृदहरनिरुक्तं ज्योतिष्टोमो वैश्वानरोऽतिरात्रः २

03 पञ्चविंशतिरात्रम् पशुकामा उपेयुः ...{Loading}...

पञ्चविंशतिरात्रं पशुकामा उपेयुः ३

04 अतिरात्रो द्वावभिप्लवौ द्वादशाहस्य ...{Loading}...

अतिरात्रो द्वावभिप्लवौ द्वादशाहस्य दशाहानि महाव्रतमतिरात्रश्च ४

05 षड्विंशतिरात्रं स्वर्गकामा उपेयुः ...{Loading}...

षड्विंशतिरात्रं स्वर्गकामा उपेयुः ५

06 अतिरात्रो गोआयुषी द्वावभिप्लवौ ...{Loading}...

अतिरात्रो गोआयुषी द्वावभिप्लवौ द्वादशाहस्य दशाहान्यतिरात्रः ६

07 सप्तविंशतिरात्रमन्नाद्यकामा उपेयुः ...{Loading}...

सप्तविंशतिरात्रमन्नाद्यकामा उपेयुः ७

08 अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वावभिप्लवौ ...{Loading}...

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वावभिप्लवौ द्वादशाहस्य दशाहान्यतिरात्रः ८

09 अष्टाविंशतिरात्रम् पशुकामा उपेयुः ...{Loading}...

अष्टाविंशतिरात्रं पशुकामा उपेयुः ९

10 एता एव समहाव्रताः ...{Loading}...

एता एव समहाव्रताः १०

11 एकान्नत्रिंशद्रात्रेणापरिमितां श्रियञ् जयन्ति ...{Loading}...

एकान्नत्रिंशद्रात्रेणापरिमितां श्रियं जयन्ति ११

12 अतिरात्रो ज्योतिर्गौरायुर्गौरायुःपञ्चाहो द्वावभिप्लवौ ...{Loading}...

अतिरात्रो ज्योतिर्गौरायुर्गौरायुःपञ्चाहो द्वावभिप्लवौ द्वादशाहस्य दशाहान्यतिरात्रः १२

13 त्रिंशद्रात्रमन्नाद्यकामा उपेयुः ...{Loading}...

त्रिंशद्रात्रमन्नाद्यकामा उपेयुः १३

14 अतिरात्रस्त्रयोऽभिप्लवा द्वादशाहस्य दशाहान्यतिरात्रः ...{Loading}...

अतिरात्रस्त्रयोऽभिप्लवा द्वादशाहस्य दशाहान्यतिरात्रः १४

इति चतुर्थी कण्डिका


  1. Cf. TMB XXIII.19.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TMB XXIII.19.1; cf. also TS VII.4.2ff. ↩︎