०१

01 चतुर्विंशतिपरमाः सत्त्रमासीरन् …{Loading}…

चतुर्विंशतिपरमाः सत्त्रमासीरन् १

02 तेषान् द्वादशाहेन सत्त्रभूतेन …{Loading}…

तेषां द्वादशाहेन सत्त्रभूतेन कल्पो व्याख्यातो यानि पुरस्तात्संवत्सरात् । गवामयनेनेतरेषाम् २

03 उभयतोऽतिरात्राणि भवन्ति …{Loading}…

उभयतोऽतिरात्राणि भवन्ति ३

04 तृतीयम् पञ्चदशरात्रम् परिहाप्य …{Loading}…

तृतीयं पञ्चदशरात्रं परिहाप्य कुण्डपायिनां च सत्त्रम् ४

05 ऋतूनामेकादशरात्रेण प्रजां सृजन्ते …{Loading}…

ऋतूनामेकादशरात्रेण प्रजां सृजन्ते प्रजामवरुन्धते प्रजां विन्दन्ते प्रजावन्तो भवन्ति ५

06 ज्योतिरतिरात्रः पृष्ठ्यः षडहस्त्रयश्छन्दोमा …{Loading}…

ज्योतिरतिरात्रः पृष्ठ्यः षडहस्त्रयश्छन्दोमा अतिरात्रः ६

07 द्वौ त्रयोदशरात्रौ …{Loading}…

द्वौ त्रयोदशरात्रौ ७

08 यङ् कामङ् कामयन्ते …{Loading}…

यं कामं कामयन्ते तमभ्यश्नुवते ८

09 अतिरात्रः पृष्ठ्यः षडहः …{Loading}…

अतिरात्रः पृष्ठ्यः षडहः सर्वस्तोमोऽतिरात्रश्चत्वारश्छन्दोमा अतिरात्रः ९

10 द्वितीयम् ब्रह्मवर्चसकामा उपेयुः …{Loading}…

द्वितीयं ब्रह्मवर्चसकामा उपेयुः १०

11 अतिरात्रो द्वादशाहस्य दशाहानि …{Loading}…

अतिरात्रो द्वादशाहस्य दशाहानि महाव्रतमतिरात्रश्च ११

12 त्रयश्चतुर्दशरात्राः …{Loading}…

त्रयश्चतुर्दशरात्राः १२

13 यङ् कामङ् कामयन्ते …{Loading}…

यं कामं कामयन्ते तमभ्यश्नुवते १३

14 अतिरात्रः पृष्ठ्यः षडह …{Loading}…

अतिरात्रः पृष्ठ्यः षडह आवृत्तः पृष्ठ्यः षडहोऽतिरात्रः १४

15 द्वितीयं यांस्तल्प उदके …{Loading}…

द्वितीयं यांस्तल्प उदके विवाहे वा मीमांसेरन् १५

16 अतिरात्रो ज्योतिर्गौरायुस्त्र्यहः पृष्ठ्यः …{Loading}…

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहः पृष्ठ्यः षडह आयुर्गौर्ज्योतिरतिरात्रः १६

17 तृतीयमृद्धिकामा उपेयुः …{Loading}…

तृतीयमृद्धिकामा उपेयुः १७

18 अतिरात्रो गोआयुषी द्वादशाहस्य …{Loading}…

अतिरात्रो गोआयुषी द्वादशाहस्य दशाहान्यतिरात्रः १८

इति प्रथमा कण्डिका


  1. See XXI.1.1-14.15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XXI.15.1-23.14. ↩︎ ↩︎ ↩︎