२८

01 राजाभिषेक्ष्यमाणो जनपदेषु समवेतेषु ...{Loading}...

राजाभिषेक्ष्यमाणो जनपदेषु समवेतेषु द्वयोः पुण्याहयोः पूर्वस्मिन्स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय सम्परिस्तीर्य वसति १

02 उदित आदित्ये ये ...{Loading}...

उदित आदित्ये ये केशिनो नर्ते ब्रह्मण इति द्वे आहुती हुत्वा राडसि विराडसीति यजमानायतन औदुम्बरीमासन्दीं प्रतिष्ठापयति २

03 तां राजारोहति ...{Loading}...

तां राजारोहति ३

04 आरोह प्रोष्ठमित्यारोहन्तमभिमन्त्रयते ...{Loading}...

आरोह प्रोष्ठमित्यारोहन्तमभिमन्त्रयते ४

05 अत्र वरन् ददाति ...{Loading}...

अत्र वरं ददाति ५

06 तस्यामासीनः केशान्वापयते येनावपत्सविता ...{Loading}...

तस्यामासीनः केशान्वापयते येनावपत्सविता क्षुरेणेति ६

07 मा ते केशानिति ...{Loading}...

मा ते केशानिति केशान्प्रकीर्यमाणाननुमन्त्रयते ७

08 तान्समोप्य दर्भस्तम्बे निदधाति ...{Loading}...

तान्समोप्य दर्भस्तम्बे निदधाति तेभ्यो निधानमिति ८

09 अथैनमाज्यमिश्रेण पयसानक्ति बलन् ...{Loading}...

अथैनमाज्यमिश्रेण पयसानक्ति । बलं ते बाहुवोरिति बाहू । यत्सीमन्तमिति शिरः ९

10 व्याघ्रोऽयमग्नाविति सप्ताहुतीर्य्हुत्वा द्यौरसि ...{Loading}...

व्याघ्रोऽयमग्नाविति सप्ताहुतीर्य्हुत्वा द्यौरसि पृथिव्यसीति यजमानायतने शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमास्तृणाति १०

11 तस्मिन्राजोपविशति ...{Loading}...

तस्मिन्राजोपविशति ११

12 व्याघ्रो वैय्याघ्र इत्यासीनमभिमन्त्रयते ...{Loading}...

व्याघ्रो वैय्याघ्र इत्यासीनमभिमन्त्रयते १२

13 अथैनन् तोक्मावास्ताभिर्दूर्वावास्ताभिर्वाद्भिरभिषिञ्चति या ...{Loading}...

अथैनं तोक्मावास्ताभिर्दूर्वावास्ताभिर्वाद्भिरभिषिञ्चति या दिव्या आप इति प्रतिपद्या पाङ्क्तात् १३

14 अरुणन् त्वा वृकमित्येनमभिमन्त्र्य ...{Loading}...

अरुणं त्वा वृकमित्येनमभिमन्त्र्य प्र बाहवेति बाहू प्रसार्येन्द्रस्य ते वीर्यकृत इत्युपावहरति १४

15 अग्रेणाग्निं रथोऽवस्थितो भवति ...{Loading}...

अग्रेणाग्निं रथोऽवस्थितो भवति १५

16 अभि प्रेहीति तं ...{Loading}...

अभि प्रेहीति तं राजाभ्येति १६

17 आतिष्ठ वृत्रहन्तम इत्यारोहन्तमभिमन्त्रयते ...{Loading}...

आतिष्ठ वृत्रहन्तम इत्यारोहन्तमभिमन्त्रयते १७

18 अङ्को न्यङ्काविति रथचक्रे ...{Loading}...

अङ्को न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा १८

19 नमस्त ऋष इति ...{Loading}...

नमस्त ऋष इति पुरोहितमभिमन्त्रयते १९

20 तिष्ठा रथ इति ...{Loading}...

तिष्ठा रथ इति सारथिम् २०

21 आ रश्मीनिति रश्मीनालभते ...{Loading}...

आ रश्मीनिति रश्मीनालभते २१

22 आतिष्ठ वृत्रहन्निति षड्भिरारूढम् ...{Loading}...

आतिष्ठ वृत्रहन्निति षड्भिरारूढम् २२

23 परि मा सेन्या ...{Loading}...

परि मा सेन्या इति द्वे वाचयित्वोत्तराभिस्तिसृभिरभिमन्त्र्योदसावेत्वित्यादित्यमुदीक्षयति २३

24 अन्नवतामिति जनपदाननुवीक्षते ...{Loading}...

अन्नवतामिति जनपदाननुवीक्षते २४

25 सन्तिष्ठते राजाभिषेकः ...{Loading}...

सन्तिष्ठते राजाभिषेकः २५

26 व्याख्यातो विघनः ...{Loading}...

व्याख्यातो विघनः २६

27 सन्तिष्ठन्ते सवाः सवाः ...{Loading}...

सन्तिष्ठन्ते सवाः सवाः २७

इत्यष्टाविंशी कण्डिका इति द्वाविंशः प्रश्नः


  1. For both the verses see TB II.7.17.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB. II.7.17.2. ↩︎