२७

01 सन्तिष्ठत ओदनसवः ...{Loading}...

सन्तिष्ठत ओदनसवः १

02 व्याख्यातः पञ्चशारदीयः ...{Loading}...

व्याख्यातः पञ्चशारदीयः २

03 तथाग्निष्टुत ...{Loading}...

तथाग्निष्टुत ३

04 तस्य पुरोरुचः ...{Loading}...

तस्य पुरोरुचः ४

05 अस्याजरासोऽग्न आयूंषि पवस ...{Loading}...

अस्याजरासोऽग्न आयूंषि पवस इत्यैन्द्रवायवस्य । द्वितीया मैत्रावरुणस्य । तृतीयाश्विनस्य । चतुर्थी पञ्चमी च शुक्रामन्थिनोः षष्ठ्याग्रयणस्य ५

06 अन्यामाग्नेयीमुक्थ्यस्य नियुनक्ति ...{Loading}...

अन्यामाग्नेयीमुक्थ्यस्य नियुनक्ति ६

07 नित्या ध्रुवस्य ...{Loading}...

नित्या ध्रुवस्य ७

08 नियुनक्त्यैन्द्राग्नवैश्वदेवयोः ...{Loading}...

नियुनक्त्यैन्द्राग्नवैश्वदेवयोः ८

09 अग्निश्रिय इति तिस्रो ...{Loading}...

अग्निश्रिय इति तिस्रो मरुत्वतीयानाम् । श्रुधि श्रुत्कर्णेत्युत्तरां माहेन्द्रस्य । विश्वेषामदितिरिति तिस्र आदित्यग्रहस्य । उत्तमा सावित्रस्य ९

10 नियुनक्ति वैश्वदेवस्य ...{Loading}...

नियुनक्ति वैश्वदेवस्य १०

11 नित्या पात्नीवतस्य ...{Loading}...

नित्या पात्नीवतस्य ११

12 नियुनक्ति हारियोजनस्य ...{Loading}...

नियुनक्ति हारियोजनस्य १२

13 इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येनेन्द्रियकामो वीर्यकामो वा ...{Loading}...

इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येनेन्द्रियकामो वीर्यकामो वा यजेत १३

14 ऐन्द्रियः पुरोरुचः ...{Loading}...

ऐन्द्रियः पुरोरुचः १४

15 तिष्ठा हरी कस्य ...{Loading}...

तिष्ठा हरी कस्य वृषेत्यैन्द्रवायवस्य । तृतीया मैत्रावरुणस्य । चतुर्थ्याश्विनस्य । पञ्चमी षष्ठी च शुक्रामन्थिनोः । सप्तम्याग्रयणस्य १५

16 नित्योक्थ्यस्य ...{Loading}...

नित्योक्थ्यस्य १६

17 नियुनक्ति ध्रुवैन्द्राग्नवैश्वदेवानाम् ...{Loading}...

नियुनक्ति ध्रुवैन्द्राग्नवैश्वदेवानाम् १७

18 नित्या मरुत्वतीयमाहेन्द्राणाम् ...{Loading}...

नित्या मरुत्वतीयमाहेन्द्राणाम् १८

19 आ नो विश्वाभिरूतिभिरिति ...{Loading}...

आ नो विश्वाभिरूतिभिरिति तिस्र आदित्य ग्रहस्य । उत्तमा सावित्रस्य १९

20 नियुनक्ति विअश्वदेवपात्नीवतयोः ...{Loading}...

नियुनक्ति विअश्वदेवपात्नीवतयोः २०

21 नित्या हारियोजनस्य ...{Loading}...

नित्या हारियोजनस्य २१

22 व्याख्यातो ऽप्तोर्यामः ...{Loading}...

व्याख्यातो ऽप्तोर्यामः २२

इति सप्तविंशी कण्डिका


  1. See XXII.20.9-21.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.4.16.a is substituted by TB II.7.12.3. ↩︎ ↩︎ ↩︎

  3. TB II.7.12.5-6. ↩︎

  4. TB II.7.12.6. ↩︎