२६

01 मन्थान्कल्पयन्ति आज्यमन्थम् ब्राह्मणः …{Loading}…

मन्थान्कल्पयन्ति । आज्यमन्थं ब्राह्मणः पयोमन्थं राजन्यो दधिमन्थं वैश्य उदमन्थं शूद्रः १

02 इन्द्राय त्वा तेजस्वते …{Loading}…

इन्द्राय त्वा तेजस्वते तेजस्वन्तं श्रीणामीति ब्राह्मणः सक्तुभिराज्यं श्रीत्वा तेजोऽसीत्यभिमन्त्र्य तत्ते प्रयच्छामीति यजमानाय प्रयच्छति २

03 तेजस्वदस्तु मे मुखमिति …{Loading}…

तेजस्वदस्तु मे मुखमिति प्रतिगृह्य भक्षयति ३

04 एवमितरेषामुत्तरौत्तरः श्रयणोऽभिमन्त्रणः प्रदानो …{Loading}…

एवमितरेषामुत्तरौत्तरः श्रयणोऽभिमन्त्रणः प्रदानो भक्षणश्च यथालिङ्गम् ४

05 सर्वान्यजमानो भक्षयित्वा हिरण्यम् …{Loading}…

सर्वान्यजमानो भक्षयित्वा हिरण्यं ब्राह्मणाय ददाति । तिसृधन्वं राजन्याय । अष्ट्रां वैश्याय । माषकमण्डलुं शूद्राय ५

06 ओदनशेषं यजमानः प्राश्नाति …{Loading}…

ओदनशेषं यजमानः प्राश्नाति ६

07 इममग्न आयुषे वर्चसे …{Loading}…

इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते ७

08 हिरण्यं यजमानायाबध्नाति …{Loading}…

हिरण्यं यजमानायाबध्नाति ८

09 आयुरसि विश्वायुरसीत्याबध्यमाने जपति …{Loading}…

आयुरसि विश्वायुरसीत्याबध्यमाने जपति ९

10 अपाङ् ग्रहान्गृह्णन्ति ये …{Loading}…

अपां ग्रहान्गृह्णन्ति ये मन्थान्कल्पयन्त्यपां यो द्रवणे रस इत्येतैः प्रतिमन्त्रम् १०

11 तैरेनं संसृष्टैरभिषिञ्चति यतो …{Loading}…

तैरेनं संसृष्टैरभिषिञ्चति यतो वातो मनोजवा इति ११

12 समुद्र इवासि गह्मनेत्येनमभिमन्त्र्याथैनन् …{Loading}…

समुद्र इवासि गह्मनेत्येनमभिमन्त्र्याथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति १२

13 अवभृथप्रत्याम्नायो भवतीति विज्ञायते …{Loading}…

अवभृथप्रत्याम्नायो भवतीति विज्ञायते १३

14 अग्रेणाहवनीयं रथोऽवस्थितो भवति …{Loading}…

अग्रेणाहवनीयं रथोऽवस्थितो भवति १४

15 अभि प्रेहीति तं …{Loading}…

अभि प्रेहीति तं यजमानोऽभ्येति १५

16 आतिष्ठ मित्रवर्धन इत्यारोहन्तमभिमन्त्रयते …{Loading}…

आतिष्ठ मित्रवर्धन इत्यारोहन्तमभिमन्त्रयते १६

17 अङ्कौ न्यङ्काविति रथचक्रे …{Loading}…

अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा १७

18 आतिष्ठ वृत्रहन्निति पञ्चभिरारूढम् …{Loading}…

आतिष्ठ वृत्रहन्निति पञ्चभिरारूढम् १८

19 दिदृक्षेण्यो दर्शनीयो भवति …{Loading}…

दिदृक्षेण्यो दर्शनीयो भवति य एतेन यजत इति विज्ञायते १९

इति षड्विंशी कण्डिका


  1. For the mantras see TB II.7.7.2..  ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎