२५

01 अथ सवानां व्याख्यातो ...{Loading}...

अथ सवानां व्याख्यातो बृहस्पतिसवः १

02 वैश्यः पुष्टिकामः ...{Loading}...

वैश्यः पुष्टिकामः २

03 आग्नेयादीनि सप्त हवींषि ...{Loading}...

आग्नेयादीनि सप्त हवींषि निर्वपति ३

04 पृश्निः पष्ठौही मारुत्यालभ्यते ...{Loading}...

पृश्निः पष्ठौही मारुत्यालभ्यते ४

05 तस्याः पुरस्तात्स्विष्टकृतो यजमानायतन ...{Loading}...

तस्याः पुरस्तात्स्विष्टकृतो यजमानायतन ऋषभचर्म प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानं दध्नाभिषिञ्चति ५

06 ब्राह्मणो ब्रह्मवर्चसकामः ...{Loading}...

ब्राह्मणो ब्रह्मवर्चसकामः ६

07 आग्नेयादीन्यष्टौ हवींषि निर्वपति ...{Loading}...

आग्नेयादीन्यष्टौ हवींषि निर्वपति ७

08 पुरस्तात्स्विष्टकृतो हिरण्येन घृतमुत्पूय ...{Loading}...

पुरस्तात्स्विष्टकृतो हिरण्येन घृतमुत्पूय तेन कृष्णाजिन आसीनमभिषिञ्चति ८

09 अथ सोमसवः ...{Loading}...

अथ सोमसवः ९

10 यत्किञ्च राजसूयमृते सोमन् ...{Loading}...

यत्किञ्च राजसूयमृते सोमं तत्सर्वं भवति १०

11 मैत्राबार्हस्पत्यं संस्थाप्य सौमीं ...{Loading}...

मैत्राबार्हस्पत्यं संस्थाप्य सौमीं सूतवशामालभते ११

12 तस्याः पुरस्तात्स्विष्टकृतोऽषाढं युत्सु ...{Loading}...

तस्याः पुरस्तात्स्विष्टकृतोऽषाढं युत्सु पृतनासु पप्रिमिति सौम्यर्चाद्भिरभिषिञ्चति १२

13 शेषं संस्थाप्य संसृपां ...{Loading}...

शेषं संस्थाप्य संसृपां हविर्भिर्दिशामवेष्ट्या द्विपशुना पशुबन्धेन सात्यदूतानां हविर्भिः प्रयुजामिति यजते १३

14 पृथिसवेन पशुकामः ...{Loading}...

पृथिसवेन पशुकामः १४

15 यत्किञ्च राजसूयमनुत्तरवेदिकन् तत्सर्वम् ...{Loading}...

यत्किञ्च राजसूयमनुत्तरवेदिकं तत्सर्वं भवति १५

16 मैत्राबार्हस्पत्यस्य पुरस्तात्स्विष्टकृतो ये ...{Loading}...

मैत्राबार्हस्पत्यस्य पुरस्तात्स्विष्टकृतो ये मे पञ्चाशतमिति नाराशंस्यर्चाद्भिरभिषिञ्चति १६

17 समानमुत्तरम् पूर्वेण पशुबन्धवर्जम् ...{Loading}...

समानमुत्तरं पूर्वेण पशुबन्धवर्जम् १७

18 व्याख्यातो गोसवः ...{Loading}...

व्याख्यातो गोसवः १८

19 ओदनसवेनान्नाद्यकामः ...{Loading}...

ओदनसवेनान्नाद्यकामः १९

20 रोहिण्यां यजतोपव्युषं श्रपयति ...{Loading}...

रोहिण्यां यजतोपव्युषं श्रपयति २०

21 दर्विहोमो भवति ...{Loading}...

दर्विहोमो भवति २१

22 उदित आदित्ये सिंहे ...{Loading}...

उदित आदित्ये सिंहे व्याघ्र इति चतस्र आहुतीरोदनाद्धुत्वा राडसि विराडसीत्येतैः प्रतिमन्त्रम् २२

इति पञ्चविंशी कण्डिका


  1. The Savayajñas are generally one-day-sacrifices consisting of sprinkling of water etc. (Abhiṣeka) on the sacrificer. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For this Sūtra cf. TB 11.7.4.1. ↩︎ ↩︎ ↩︎

  3. See XVIII.21.12-15. ↩︎

  4. See XVIII.21.16ff. ↩︎

  5. See XVIII.22.5-6. ↩︎