२४

01 देवपुराभिचर्यमाणः …{Loading}…

देवपुराभिचर्यमाणः १

02 त्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो ऽभिजिदग्निष्टोमो …{Loading}…

त्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो ऽभिजिदग्निष्टोमो गौरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः २

03 छन्दोमवता पुरुषम् पशूनोजो …{Loading}…

छन्दोमवता पुरुषं पशूनोजो वीर्यमाप्नोति ३

04 अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमा अतिरात्रः …{Loading}…

अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमा अतिरात्रः ४

05 अथैकेषाम् अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा …{Loading}…

अथैकेषाम् । अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा अतिरात्रः ५

06 कौसुरुबिन्देन बहोर्भूयान्भवति …{Loading}…

कौसुरुबिन्देन बहोर्भूयान्भवति ६

07 त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदश उक्थ्यास्त्रयः …{Loading}…

त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदश उक्थ्यास्त्रयः सप्तदशा उक्थ्या एकविंशोऽतिरात्रः ७

08 पौण्डरीक एकादशरात्रोऽयुतदक्षिणः …{Loading}…

पौण्डरीक एकादशरात्रोऽयुतदक्षिणः ८

09 अन्वहं सहस्राणि ददाति …{Loading}…

अन्वहं सहस्राणि ददाति । अश्वसहस्रमुत्तमेऽश्वशतं वा ९

10 तेन सर्वामृद्धिमृध्नोति परमेष्ठिताङ् …{Loading}…

तेन सर्वामृद्धिमृध्नोति परमेष्ठितां गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति १०

11 अभ्यासङ्ग्यः षडहश्चतुष्टोमोऽग्निष्टोमस्त्रयश्छन्दोमा अतिरात्रः …{Loading}…

अभ्यासङ्ग्यः षडहश्चतुष्टोमोऽग्निष्टोमस्त्रयश्छन्दोमा अतिरात्रः ११

12 अथैकेषाम् अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा …{Loading}…

अथैकेषाम् । अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा महाव्रतं विश्वजित्सर्वपृष्ठो ऽतिरात्रः १२

इति चतुर्विंशी कण्डिका


  1. Cf. TS VII.2.5.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎