२३

01 सत्त्रसम्मितेनान्नाद्यकामः …{Loading}…

सत्त्रसम्मितेनान्नाद्यकामः १

02 कौसुरुबिन्दवदहानि …{Loading}…

कौसुरुबिन्दवदहानि २

03 ऐन्द्रेणौजस्कामः …{Loading}…

ऐन्द्रेणौजस्कामः ३

04 ज्योतिर्गौरायुरथाभिजिद्विश्वजित्सर्वजित्सर्वस्तोमोऽतिरात्रः …{Loading}…

ज्योतिर्गौरायुरथाभिजिद्विश्वजित्सर्वजित्सर्वस्तोमोऽतिरात्रः ४

05 जनकसप्तरात्रेण प्रजातिम् भूमानङ् …{Loading}…

जनकसप्तरात्रेण प्रजातिं भूमानं गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति ५

06 चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतञ् …{Loading}…

चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतं ज्योतिष्टोमो वैश्वानरोऽतिरात्रः ६

07 अष्टरात्रेण ब्रह्मवर्चसकामः स …{Loading}…

अष्टरात्रेण ब्रह्मवर्चसकामः । स व्याख्यातः ७

08 त्रयो नवरात्राः …{Loading}…

त्रयो नवरात्राः ८

09 प्रथमेनायुष्कामः …{Loading}…

प्रथमेनायुष्कामः ९

10 पृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः …{Loading}…

पृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः १०

11 द्वितीयेन ब्रह्मवर्चसकामः …{Loading}…

द्वितीयेन ब्रह्मवर्चसकामः ११

12 त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः …{Loading}…

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्योऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः १२

13 शललीपिशङ्गेनान्नाद्यकामः …{Loading}…

शललीपिशङ्गेनान्नाद्यकामः १३

14 ज्योतिर्गौरायुर्ज्योतिर्गौरायुर्गौर्ज्योतिरतिरात्रः …{Loading}…

ज्योतिर्गौरायुर्ज्योतिर्गौरायुर्गौर्ज्योतिरतिरात्रः १४

15 चत्वारो दशरात्राः …{Loading}…

चत्वारो दशरात्राः १५

16 दशरात्राय दीक्षिष्यमाणो दशहोतारम् …{Loading}…

दशरात्राय दीक्षिष्यमाणो दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहुयात् १६

17 त्रिककुत्प्रथमः त्रिककुत्प्रजानां समानानाञ् …{Loading}…

त्रिककुत्प्रथमः । त्रिककुत्प्रजानां समानानां च भवति १७

18 त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यस्त्रिवृदग्निष्टोमः …{Loading}…

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यस्त्रिवृदग्निष्टोमः सप्तदशोऽग्निष्टोम एकविंश उक्थ्यः सप्तदशोऽग्निष्टोमस्त्रिणवोऽग्निष्टोमस्त्रयस्त्रिंश उक्थ्यस्त्रिणवोऽग्निष्टोमो विश्वजित्सर्वपृष्ठोऽतिरात्रः १८

इति त्रयोविंशी कण्डिका


  1. See XXII.22.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For the days cp. TMB XXII.13.1. ↩︎ ↩︎

  3. For this sūtra cf. TS VII.2.5.3; TMB XXI.14.7. ↩︎