२२

01 चत्वारः षडहाः …{Loading}…

चत्वारः षडहाः १

02 साध्यानाम् प्रथमः …{Loading}…

साध्यानां प्रथमः २

03 साध्या वै देवाः …{Loading}…

साध्या वै देवाः सुवर्गकामा इत्युक्तम् ३

04 ऋतूनान् द्वितीयेन प्रजाकामः …{Loading}…

ऋतूनां द्वितीयेन प्रजाकामः ४

05 पृष्ठः षडहः …{Loading}…

पृष्ठः षडहः ५

06 तृतीयेनोपरिष्टात्त्रिकद्रुकेण यङ् कामङ् …{Loading}…

तृतीयेनोपरिष्टात्त्रिकद्रुकेण यं कामं कामयते तमभ्यश्नुते ६

07 त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः …{Loading}…

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः ७

08 चतुर्थेन प्रैव जायते …{Loading}…

चतुर्थेन प्रैव जायते प्रजया पशुभिः ८

09 अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः …{Loading}…

अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः ९

10 अष्टौ सप्तरात्राः …{Loading}…

अष्टौ सप्तरात्राः १०

11 कौसुरुबिन्देन पशुकामः …{Loading}…

कौसुरुबिन्देन पशुकामः ११

12 स व्याख्यातः …{Loading}…

स व्याख्यातः १२

13 सप्तर्षीणान् द्वितीयेन स्वर्गकामः …{Loading}…

सप्तर्षीणां द्वितीयेन स्वर्गकामः १३

14 पृष्ठ्यः षडहो महाव्रतवानतिरात्रः …{Loading}…

पृष्ठ्यः षडहो महाव्रतवानतिरात्रः १४

15 प्राजापत्येन प्रजाकामः …{Loading}…

प्राजापत्येन प्रजाकामः १५

16 पृष्ठ्यः षडहः प्राजापत्यम् …{Loading}…

पृष्ठ्यः षडहः प्राजापत्यं महाव्रतमतिरात्रे १६

17 छन्दोमपवमानेन पशुकामः …{Loading}…

छन्दोमपवमानेन पशुकामः १७

18 पृष्ठ्यः षडहश्छन्दोमपवमानम् महाव्रतमतिरात्रे …{Loading}…

पृष्ठ्यः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रे १८

19 पृष्ठ्यावलम्बेनान्नाद्यकामः …{Loading}…

पृष्ठ्यावलम्बेनान्नाद्यकामः १९

20 पृष्ठ्यस्तोमः षडहो महाव्रतवानतिरात्रः …{Loading}…

पृष्ठ्यस्तोमः षडहो महाव्रतवानतिरात्रः २०

इति द्वाविंशी कण्डिका