२१

01 अग्नये रुद्रवते पुरोडाशमष्टाकपालन् ...{Loading}...

अग्नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेत् १

02 अपोनप्त्रीयञ् चरुं यद्यप्सु ...{Loading}...

अपोनप्त्रीयं चरुं यद्यप्सु पतेत् २

03 नैरृतञ् चरुं यद्यवसीदेत् ...{Loading}...

नैरृतं चरुं यद्यवसीदेत् ३

04 भौमञ् चरुमेककपालं वा ...{Loading}...

भौमं चरुमेककपालं वा यद्यवसन्नः संशीर्णो वा ४

05 बार्हस्पत्यञ् चरुं यदि ...{Loading}...

बार्हस्पत्यं चरुं यदि श्लोणः कूटो वा ५

06 यदि नश्येद्वायव्यञ् चरुम् ...{Loading}...

यदि नश्येद्वायव्यं चरुम् ६

07 यदि सेनाभीत्वरी विन्देतेन्द्राय ...{Loading}...

यदि सेनाभीत्वरी विन्देतेन्द्राय जयत एकादशकपालम् ७

08 यदि प्रासहा नयेयुरिन्द्राय ...{Loading}...

यदि प्रासहा नयेयुरिन्द्राय प्रसह्वन एकादशकपालम् ८

09 यद्यन्धः स्यात्सौर्यञ् चरुमेककपालं ...{Loading}...

यद्यन्धः स्यात्सौर्यं चरुमेककपालं वा ९

10 यदि श्वभ्रम् प्रपतेद्वैष्णवञ् ...{Loading}...

यदि श्वभ्रं प्रपतेद्वैष्णवं चरुम् १०

11 यद्यविज्ञातेन यक्ष्मणा म्रियेत ...{Loading}...

यद्यविज्ञातेन यक्ष्मणा म्रियेत प्राजापत्यं चरुं द्वादशकपालं वा ११

12 चतुर्थोऽन्तर्महाव्रतः ...{Loading}...

चतुर्थोऽन्तर्महाव्रतः १२

13 भ्रातृव्यवान्यजेत ...{Loading}...

भ्रातृव्यवान्यजेत १३

14 त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यो ...{Loading}...

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यो महाव्रतं सप्तदश उक्थ्य एकविंशोऽतिरात्रः १४

15 पुरुषमेधः पञ्चमः ...{Loading}...

पुरुषमेधः पञ्चमः १५

16 पञ्चशारदीयवदहानि ...{Loading}...

पञ्चशारदीयवदहानि १६

17 अयुतम् प्रथमेऽहनि ददाति ...{Loading}...

अयुतं प्रथमेऽहनि ददाति । नियुतं द्वितीये । अर्बुदं न्यर्बुदम् च तृतीये । यथा प्रथमयोरेवमुत्तरयोः १७

इत्येकविंशी कण्डिका


  1. For Sūtras XXII.20.19-21.11, cf. TMBXXI.14.13-19. For similar offerings in connection with the horse in the Aśvamedha-sacrifice cp. xx.7.1ff. ↩︎ ↩︎ ↩︎