२१

01 अग्नये रुद्रवते पुरोडाशमष्टाकपालन् …{Loading}…

अग्नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेत् १

02 अपोनप्त्रीयञ् चरुं यद्यप्सु …{Loading}…

अपोनप्त्रीयं चरुं यद्यप्सु पतेत् २

03 नैरृतञ् चरुं यद्यवसीदेत् …{Loading}…

नैरृतं चरुं यद्यवसीदेत् ३

04 भौमञ् चरुमेककपालं वा …{Loading}…

भौमं चरुमेककपालं वा यद्यवसन्नः संशीर्णो वा ४

05 बार्हस्पत्यञ् चरुं यदि …{Loading}…

बार्हस्पत्यं चरुं यदि श्लोणः कूटो वा ५

06 यदि नश्येद्वायव्यञ् चरुम् …{Loading}…

यदि नश्येद्वायव्यं चरुम् ६

07 यदि सेनाभीत्वरी विन्देतेन्द्राय …{Loading}…

यदि सेनाभीत्वरी विन्देतेन्द्राय जयत एकादशकपालम् ७

08 यदि प्रासहा नयेयुरिन्द्राय …{Loading}…

यदि प्रासहा नयेयुरिन्द्राय प्रसह्वन एकादशकपालम् ८

09 यद्यन्धः स्यात्सौर्यञ् चरुमेककपालं …{Loading}…

यद्यन्धः स्यात्सौर्यं चरुमेककपालं वा ९

10 यदि श्वभ्रम् प्रपतेद्वैष्णवञ् …{Loading}…

यदि श्वभ्रं प्रपतेद्वैष्णवं चरुम् १०

11 यद्यविज्ञातेन यक्ष्मणा म्रियेत …{Loading}…

यद्यविज्ञातेन यक्ष्मणा म्रियेत प्राजापत्यं चरुं द्वादशकपालं वा ११

12 चतुर्थोऽन्तर्महाव्रतः …{Loading}…

चतुर्थोऽन्तर्महाव्रतः १२

13 भ्रातृव्यवान्यजेत …{Loading}…

भ्रातृव्यवान्यजेत १३

14 त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यो …{Loading}…

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यो महाव्रतं सप्तदश उक्थ्य एकविंशोऽतिरात्रः १४

15 पुरुषमेधः पञ्चमः …{Loading}…

पुरुषमेधः पञ्चमः १५

16 पञ्चशारदीयवदहानि …{Loading}…

पञ्चशारदीयवदहानि १६

17 अयुतम् प्रथमेऽहनि ददाति …{Loading}…

अयुतं प्रथमेऽहनि ददाति । नियुतं द्वितीये । अर्बुदं न्यर्बुदम् च तृतीये । यथा प्रथमयोरेवमुत्तरयोः १७

इत्येकविंशी कण्डिका


  1. For Sūtras XXII.20.19-21.11, cf. TMBXXI.14.13-19. For similar offerings in connection with the horse in the Aśvamedha-sacrifice cp. xx.7.1ff. ↩︎ ↩︎ ↩︎