२०

01 वसिष्ठस्य संसर्पः यः ...{Loading}...

वसिष्ठस्य संसर्पः । यः पुण्यो हीन इव स्यात्स एतेन १

02 विश्वामित्रस्य सञ्जयः भ्रातृव्यवान्यजेत ...{Loading}...

विश्वामित्रस्य सञ्जयः । भ्रातृव्यवान्यजेत २

03 पञ्च पञ्चाहाः ...{Loading}...

पञ्च पञ्चाहाः ३

04 संवत्सरो वा इदमेक ...{Loading}...

संवत्सरो वा इदमेक आसीदित्युक्तम् ४

05 अभ्यासङ्ग्यो द्वितीयः ...{Loading}...

अभ्यासङ्ग्यो द्वितीयः ५

06 यङ् कामङ् कामयते ...{Loading}...

यं कामं कामयते तमभ्यश्नुते ६

07 अग्निष्टोमस्त्रय उक्थ्या अतिरात्रः ...{Loading}...

अग्निष्टोमस्त्रय उक्थ्या अतिरात्रः ७

08 त्रिवृती द्वे सवने ...{Loading}...

त्रिवृती द्वे सवने पञ्चदशमेकम् । पञ्चदशे द्वे सप्तदशमेकम् । सप्तदशे द्वे एकविंशमेकम् । एकविंशे द्वे त्रिणवमेकम् । त्रिनवे द्वे त्रयस्त्रिंशमेकम् ८

09 पञ्चशारदीयेन बहोर्भूयान्भवति ...{Loading}...

पञ्चशारदीयेन बहोर्भूयान्भवति ९

10 अनुसंवत्सरम् पशुबन्धेन यजते ...{Loading}...

अनुसंवत्सरं पशुबन्धेन यजते १०

11 सप्तदश पृश्नीनुक्ष्णः पञ्चवर्षानानयन्ति ...{Loading}...

सप्तदश पृश्नीनुक्ष्णः पञ्चवर्षानानयन्ति । सप्तदश पृश्नीर्वत्सतर्यस्त्रिवत्सा अप्रवीताः ११

12 प्रोक्षितान्पर्यग्निकृतानुक्ष्ण उत्सृजन्ति वत्सतरीरालभन्ते ...{Loading}...

प्रोक्षितान्पर्यग्निकृतानुक्ष्ण उत्सृजन्ति । वत्सतरीरालभन्ते १२

13 वर्णाननुक्रमिष्यामः ...{Loading}...

वर्णाननुक्रमिष्यामः १३

14 राजीवा नवनीतपृश्नीररुणाः पिशङ्गीः ...{Loading}...

राजीवा नवनीतपृश्नीररुणाः पिशङ्गीः सारङ्गीरुत्तमीरालभ्य दीक्षन्ते १४

15 त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः ...{Loading}...

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चदश उक्थ्यः सप्तदशोऽतिरात्रः १५

16 एत उक्षाणः सवनीयाः ...{Loading}...

एत उक्षाणः सवनीयाः १६

17 त्रींस्त्रीनन्वहमालभन्ते पञ्चोत्तमेऽहन् ...{Loading}...

त्रींस्त्रीनन्वहमालभन्ते । पञ्चोत्तमेऽहन् १७

18 ऐन्द्रमारुता उक्षाणः मारुत्यो ...{Loading}...

ऐन्द्रमारुता उक्षाणः । मारुत्यो वत्सतर्यः १८

19 यद्युक्ष्णो रुद्रोऽभिमन्येत ...{Loading}...

यद्युक्ष्णो रुद्रोऽभिमन्येत १९

इति विंशी कण्डिका


  1. Cp. for this sacrifice TMB XXI.11.2; JB II, 289. The name occurs only in the JB. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎