१६

01 दक्षिणेन वा वेदिन् …{Loading}…

दक्षिणेन वा वेदिं नीत्वान्तरा यूपमाहवनीयं च द्रोणकलशमवघ्रापयेदा जिघ्र कलशमिति । आग्नीध्रे हविर्धाने वा १

02 तामुदीचीमाग्नीध्रन् नीत्वा तस्याः …{Loading}…

तामुदीचीमाग्नीध्रं नीत्वा तस्याः पृष्ठे तार्प्यमध्यस्यति २

03 तस्मिन्धिष्णियानां रूपं विग्रथितम् …{Loading}…

तस्मिन्धिष्णियानां रूपं विग्रथितं भवति ३

04 अथ पुरस्तात्प्रतीच्यान् तिष्ठन्त्याञ् …{Loading}…

अथ पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादुभा जिग्यथुरिति ४

05 रूपाणि जुहोति यानि …{Loading}…

रूपाणि जुहोति यानि तस्यां भवन्ति ५

06 आश्वमेधिकान्येके समामनन्ति …{Loading}…

आश्वमेधिकान्येके समामनन्ति ६

07 प्रतीचीं सदसः स्रक्तिमानीय …{Loading}…

प्रतीचीं सदसः स्रक्तिमानीय तस्या उपोत्थाय दक्षिणं कर्णमाजपेदिडे रन्ते इति ७

08 उत्सृज्य विज्ञानमुपैति …{Loading}…

उत्सृज्य विज्ञानमुपैति ८

09 यद्यपुरुषाभिवीता प्राचीयादरात्सीदयं यजमानः …{Loading}…

यद्यपुरुषाभिवीता प्राचीयादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति विद्यात् । यदि दक्षिणा क्षिप्रेऽस्माल्लोकात्प्रैष्यति । यदि प्रतीची बहुधान्यो भविष्यति । यद्युदीची श्रेयानस्मिंल्लोके भविष्यतीति ९

10 तां यजमानोऽभिमन्त्रयते सा …{Loading}…

तां यजमानोऽभिमन्त्रयते सा मा सुवर्गं लोकं गमयेति १०

11 यास्तिस्रस्तिस्रस्त्रिंशत्यधि तास्वेनामुपसमाहृत्य तामग्नीधे …{Loading}…

यास्तिस्रस्तिस्रस्त्रिंशत्यधि तास्वेनामुपसमाहृत्य तामग्नीधे ब्रह्मणे होत्र उद्गात्र उन्नेत्रेऽध्वर्यवे वा दद्यात् ११

12 द्वौ वोन्नेतारौ वृत्वा …{Loading}…

द्वौ वोन्नेतारौ वृत्वा यतरो नाश्रावयेत्तस्मै वा १२

13 द्विभागं वा ब्रह्मणे …{Loading}…

द्विभागं वा ब्रह्मणे तृतीयमग्नीधे १३

14 सर्वेभ्यो वा सदस्येभ्यः …{Loading}…

सर्वेभ्यो वा सदस्येभ्यः १४

15 उदाकृत्या वा सा …{Loading}…

उदाकृत्या वा सा वशं चरेत् । यस्तामविद्वान्प्रतिगृह्णातीत्युक्तम् १५

16 तां शतमानेन हिरण्येन …{Loading}…

तां शतमानेन हिरण्येन निष्क्रीय यजमानस्य गोष्ठे विसृजति १६

इति षोडशी कण्डिका


  1. TS VII.1.6.6. ↩︎ ↩︎ ↩︎

  2. For this see XVIII.5.7. ↩︎

  3. Cf. TMB XXI.1.10, JB II.251. ↩︎

  4. Cf. TS VII.1.6.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎