१५

01 गर्गत्रिरात्रेण प्रजातिम् भूमानङ् …{Loading}…

गर्गत्रिरात्रेण प्रजातिं भूमानं गच्छत्यभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति वसून्रुद्रानादित्यानन्वारोहति १

02 त्रैधातवीया दीक्षणीया …{Loading}…

त्रैधातवीया दीक्षणीया २

03 रोहिणी वभ्रुर्वा पिङ्गलैकहायनी …{Loading}…

रोहिणी वभ्रुर्वा पिङ्गलैकहायनी द्विहायनी वा सोमक्रयणी ३

04 अग्निष्टोम उक्थ्यो ऽतिरात्रः …{Loading}…

अग्निष्टोम उक्थ्यो ऽतिरात्रः ४

05 रथन्तरं वामदेव्यम् बृहदिति …{Loading}…

रथन्तरं वामदेव्यं बृहदिति पृष्ठानि ५

06 सहस्रन् दक्षिणा …{Loading}…

सहस्रं दक्षिणा ६

07 त्रीणि शतानि त्रयस्त्रिंशतञ् …{Loading}…

त्रीणि शतानि त्रयस्त्रिंशतं च प्रथमेऽहनि ददाति । एवं द्वितीये तृतीये च ७

08 साहस्र्यतिरिच्यते रोहिण्युपध्वस्ता द्विरूपोभयत …{Loading}…

साहस्र्यतिरिच्यते रोहिण्युपध्वस्ता द्विरूपोभयत एन्यन्यतरतो वा ८

09 यैव वरः कल्याणीत्युक्तम् …{Loading}…

यैव वरः कल्याणीत्युक्तम् ९

10 उद्भृष्टिः प्रथमेऽहनि मुख्यः …{Loading}…

उद्भृष्टिः प्रथमेऽहनि मुख्यः १०

11 तमभिमन्त्रयते त्वमग्न सहस्रमा …{Loading}…

तमभिमन्त्रयते त्वमग्न सहस्रमा नयोद्वलस्याभिनत्त्वचम् । स नः सहस्रमा नय प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति ११

12 वेहद्द्वितीये …{Loading}…

वेहद्द्वितीये १२

13 तामभिमन्त्रयते त्वमपामोषधीनां रसेन …{Loading}…

तामभिमन्त्रयते त्वमपामोषधीनां रसेन रसिनी बभूविथ । सा मा सहस्र आ भज प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति १३

14 वामनस्तृतीये …{Loading}…

वामनस्तृतीये १४

15 तमभिमन्त्रयते सहस्रस्य प्रतिष्ठासि …{Loading}…

तमभिमन्त्रयते सहस्रस्य प्रतिष्ठासि वैष्णवो वामनस्त्वम् । स नः सहस्र आ धेहि प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति १५

16 तामुत्तरेणाग्नीध्रमित्युक्तम् …{Loading}…

तामुत्तरेणाग्नीध्रमित्युक्तम् १६

इति पञ्चदशी कण्डिका


  1. Cp. TMB XX.14.6; TS VII.1.5.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎