१३

01 तेनेष्ट्वा संवत्सरम् पशुव्रतो …{Loading}…

तेनेष्ट्वा संवत्सरं पशुव्रतो भवति १

02 उपवहायोदकम् पिबेत्तृणानि चाच्छिन्द्यात् …{Loading}…

उपवहायोदकं पिबेत्तृणानि चाच्छिन्द्यात् उप मातरमियादुप स्वसारमुप सगोत्राम् २

03 यत्रयत्रैनं विष्ठा विन्देत्तद्वितिष्ठेत …{Loading}…

यत्रयत्रैनं विष्ठा विन्देत्तद्वितिष्ठेत ३

04 मरुतां स्तोमेनानन्तां श्रियञ् …{Loading}…

मरुतां स्तोमेनानन्तां श्रियं जयति ४

05 एतेन द्वौ त्रीन्वा …{Loading}…

एतेन द्वौ त्रीन्वा याजयेत् ५

06 अग्नेः कुलायावन्नाद्यकामस्य …{Loading}…

अग्नेः कुलायावन्नाद्यकामस्य ६

07 इन्द्राग्नियोः कुलायौ स्वर्गकामस्य …{Loading}…

इन्द्राग्नियोः कुलायौ स्वर्गकामस्य ७

08 इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्यो …{Loading}…

इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्यो वीर्यकामः ८

09 ऋषभो दक्षिणा …{Loading}…

ऋषभो दक्षिणा ९

10 इन्द्राग्नियोः स्तोमेन राजपुरोहितावुभावेकर्द्धि …{Loading}…

इन्द्राग्नियोः स्तोमेन राजपुरोहितावुभावेकर्द्धि याजयेत् १०

11 तेजो ब्रह्मवर्चसम् ब्राह्मणस्य …{Loading}…

तेजो ब्रह्मवर्चसं ब्राह्मणस्य । विशं राजा प्रविशति ११

12 विघनेन वि पाप्मानम् …{Loading}…

विघनेन वि पाप्मानं भ्रातृव्यं हते । तेन सर्वा मृधो विहते १२

13 वज्रेण षोडशिनाभिचरन् सन्दंशेनाभिचरन् …{Loading}…

वज्रेण षोडशिनाभिचरन् । सन्दंशेनाभिचरन् १३

14 तयोः श्येनेन कल्पो …{Loading}…

तयोः श्येनेन कल्पो व्याख्यातः १४

15 त्रयोदशातिरात्राः …{Loading}…

त्रयोदशातिरात्राः १५

16 ज्योतिषर्द्धिकामः …{Loading}…

ज्योतिषर्द्धिकामः १६

17 सर्वस्तोमेन बुभूषन् …{Loading}…

सर्वस्तोमेन बुभूषन् १७

18 ऐकादशिनाः पशवः …{Loading}…

ऐकादशिनाः पशवः १८

19 यस्मात्पशवः प्र प्रेव …{Loading}…

यस्मात्पशवः प्र प्रेव भ्रंशेरन्नप्तोर्यामेण । सर्वमाप्नोति सर्वं जयति १९

20 नवसप्तदशेन प्रजाकामः …{Loading}…

नवसप्तदशेन प्रजाकामः २०

21 विषुवता ज्यैष्ठिनेयः ज्यैष्ठ्यमाप्नोति …{Loading}…

विषुवता ज्यैष्ठिनेयः । ज्यैष्ठ्यमाप्नोति २१

22 गोष्टोमेन बुभूषन् …{Loading}…

गोष्टोमेन बुभूषन् २२

23 आयुषा स्वर्गकामः …{Loading}…

आयुषा स्वर्गकामः २३

24 अभिजिता पशुकामः …{Loading}…

अभिजिता पशुकामः २४

25 विश्वजिता भ्रातृव्यवान् …{Loading}…

विश्वजिता भ्रातृव्यवान् २५

26 त्रिवृतान्नाद्यकामः …{Loading}…

त्रिवृतान्नाद्यकामः २६

27 पञ्चदशेन वीर्यकामः …{Loading}…

पञ्चदशेन वीर्यकामः २७

28 सप्तदशेन प्रजाकामः …{Loading}…

सप्तदशेन प्रजाकामः २८

29 एकविंशेन प्रतिष्ठाकामः …{Loading}…

एकविंशेन प्रतिष्ठाकामः २९

इति त्रयोदशी कण्डिका


  1. For Sūtras 2 and 3 cf. JB II.113. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ṢaḍB III. 10.9. ↩︎