१२

01 अष्टावष्टौ ...{Loading}...

अष्टावष्टौ १

02 अपचितिकामोऽपचितिभ्याम् ...{Loading}...

अपचितिकामोऽपचितिभ्याम् २

03 उभयसामानौ भवतः ...{Loading}...

उभयसामानौ भवतः ३

04 तयोरश्वरथश्चतुर्युग्दक्षिणा ...{Loading}...

तयोरश्वरथश्चतुर्युग्दक्षिणा ४

05 सर्वे शतक्रियोऽश्वाः ...{Loading}...

सर्वे शतक्रियोऽश्वाः ५

06 स रुक्मी प्रावेपी ...{Loading}...

स रुक्मी प्रावेपी सर्वाभरण्यंशुमान् ६

07 तस्य वैयाघ्रः परिवारो ...{Loading}...

तस्य वैयाघ्रः परिवारो द्वैपो धन्वधिरार्क्षः कवचः ७

08 अध्यास्थाता सन्नद्धः सन्नद्धसारथिरावृतः ...{Loading}...

अध्यास्थाता सन्नद्धः सन्नद्धसारथिरावृतः प्रतिहिताभ्याम् ८

09 निष्की स्रग्वी सङ्ग्रहीता ...{Loading}...

निष्की स्रग्वी सङ्ग्रहीता भवतीति विज्ञायते ९

10 पक्षिभ्यां साग्निचित्याभ्यां यः ...{Loading}...

पक्षिभ्यां साग्निचित्याभ्यां यः कामयेत पक्षी ज्योतिष्मतः स्वर्गांल्लोकाननुसञ्चरेयमिति १०

11 ऋषभेणाग्निष्टोमेन रथन्तरसाम्ना राजानं ...{Loading}...

ऋषभेणाग्निष्टोमेन रथंतरसाम्ना राजानं सङ्ग्रामे संयत्ते याजयेत् ११

12 यत्तत्र विन्देरंस्ततो द्वादशशतन् ...{Loading}...

यत्तत्र विन्देरंस्ततो द्वादशशतं दक्षिणा १२

13 व्योम्ना स्वर्गकामः ...{Loading}...

व्योम्ना स्वर्गकामः १३

14 उभे बृहद्रथन्तरे भवतः ...{Loading}...

उभे बृहद्रथन्तरे भवतः १४

15 सर्वः सप्तदशो भवति ...{Loading}...

सर्वः सप्तदशो भवति १५

16 एकविंशमग्निष्टोमसाम ...{Loading}...

एकविंशमग्निष्टोमसाम १६

17 गोसवेन षट्त्रिंशेनोक्थ्येन रथन्तरसाम्ना ...{Loading}...

गोसवेन षट्त्रिंशेनोक्थ्येन रथन्तरसाम्ना बृहत्साम्नोभयसाम्ना वा स्वाराज्यकामः १७

18 कण्वरथन्तरम् पवमाने ...{Loading}...

कण्वरथंतरं पवमाने १८

19 अयुतन् दक्षिणा ...{Loading}...

अयुतं दक्षिणा १९

20 दक्षिणेनाहवनीयमनुद्धते वेद्यै बृहतः ...{Loading}...

दक्षिणेनाहवनीयमनुद्धते वेद्यै बृहतः स्तोत्रं प्रत्यभिषिच्यते प्रतिधुषा रेवज्जातः सहसा वृद्धः क्षत्राणां क्षत्रभृत्तमो वयोधाः । महान्महित्वे तस्तभानः क्षत्रे राष्ट्रे च जागृहि । प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीति २०

इति द्वादशी कण्डिका