११

01 बहु प्रतिगृह्य यो …{Loading}…

बहु प्रतिगृह्य यो गरगीरिव मन्येत स पुनस्तोमेन । अनाश्यान्नस्य वा भुक्त्वा १

02 अयाज्यं वा याजयित्वेत्येके …{Loading}…

अयाज्यं वा याजयित्वेत्येके २

03 यो लघुरिवाप्रतिष्ठितः स्यात्स …{Loading}…

यो लघुरिवाप्रतिष्ठितः स्यात्स एतेन ३

04 एकविंशेनो पच्छदेन प्रजाकामः …{Loading}…

एकविंशेनो पच्छदेन प्रजाकामः ४

05 स्तोत्रेस्तोत्र एकैका स्तोत्रीयोपजायते …{Loading}…

स्तोत्रेस्तोत्र एकैका स्तोत्रीयोपजायते ५

06 गन्धर्वाप्सरसो मादयन्तामिति प्रातःसवने …{Loading}…

गन्धर्वाप्सरसो मादयन्तामिति प्रातःसवने ६

07 सन्नेषु नाराशंसेष्वधस्तात्पूतनृतॐऽशुमुपास्यति …{Loading}…

सन्नेषु नाराशंसेष्वधस्तात्पूतनृतॐऽशुमुपास्यति ७

08 गन्धर्वा देवा मादयन्तामिति …{Loading}…

गन्धर्वा देवा मादयन्तामिति माध्यंदिने । गन्धर्वाः पितरो मादयन्तामिति तृतीयसवने ८

09 छदेन भ्रातृव्यवान् …{Loading}…

छदेन भ्रातृव्यवान् ९

10 स्तोत्रेस्तोत्र एकैका स्तोत्रीयापध्वंसते …{Loading}…

स्तोत्रेस्तोत्र एकैका स्तोत्रीयापध्वंसते १०

11 तामस्यापध्वंसमानाम् भातृव्यो ऽन्वपध्वंसत …{Loading}…

तामस्यापध्वंसमानां भातृव्यो ऽन्वपध्वंसत इति विज्ञायते ११

12 सर्वतोमुखेन यः कामयेत …{Loading}…

सर्वतोमुखेन यः कामयेत सर्वमिदं भवेयमिति १२

13 मध्ये गार्हपत्यः प्रतिदिशं …{Loading}…

मध्ये गार्हपत्यः । प्रतिदिशं सौमिका विहाराः । त्रिवृत्प्राच्यां दिशि । पञ्चदशो दक्षिणतः । सप्तदशः पश्चात् । एकविंश उत्तरतः १३

14 राशिमरायू चतुष्टोमावन्नाद्यकामस्य …{Loading}…

राशिमरायू चतुष्टोमावन्नाद्यकामस्य १४

15 धान्यराशिम् पूर्वस्मिन्ददाति धान्यमरायुमुत्तरे …{Loading}…

धान्यराशिं पूर्वस्मिन्ददाति । धान्यमरायुमुत्तरे १५

16 गोतमचतुष्टोमाभ्याम् पशुकामः …{Loading}…

गोतमचतुष्टोमाभ्यां पशुकामः १६

17 उक्थ्यः षोडशिमानुत्तरः …{Loading}…

उक्थ्यः षोडशिमानुत्तरः १७

18 नपुंसकपशू इव भवतः …{Loading}…

नपुंसकपशू इव भवतः १८

19 उद्भिद्वलभिद्भ्याम् पशुकामः …{Loading}…

उद्भिद्वलभिद्भ्यां पशुकामः १९

20 उद्भिदेष्ट्वा संवत्सरे वलभिदा …{Loading}…

उद्भिदेष्ट्वा संवत्सरे वलभिदा यजेत २०

21 आग्नेयेनाष्टाकपालेनान्तरालम् प्रतिपद्यते …{Loading}…

आग्नेयेनाष्टाकपालेनान्तरालं प्रतिपद्यते २१

22 उभयत्र गायत्रीः सम्पूर्णा …{Loading}…

उभयत्र गायत्रीः सम्पूर्णा दक्षिणा ददाति २२

इत्येकादशी कण्डिका


  1. Cp. TMB XIX.4.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. JB II.83. ↩︎ ↩︎