१०

01 हिरण्यस्रजमुद्गात्रे षट्पुष्करान् द्वादशपुष्करां …{Loading}…

हिरण्यस्रजमुद्गात्रे षट्पुष्करां द्वादशपुष्करां वा यज्ञायज्ञीयस्य स्तोत्रेऽवभृथेष्ट्यामुदयनीयायामनूबन्ध्यायामुदवसानीयायां च १

02 त्रिवृताग्निष्टुताग्निष्टोमेन रथन्तरसाम्ना ब्राह्मणो …{Loading}…

त्रिवृताग्निष्टुताग्निष्टोमेन रथन्तरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः २

03 पञ्चदशेनेन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्य …{Loading}…

पञ्चदशेनेन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्य वीर्यकामः ३

04 सप्तदशेनाग्निष्टुताग्निष्टोमेन कण्वरथन्तरसाम्ना वैश्यः …{Loading}…

सप्तदशेनाग्निष्टुताग्निष्टोमेन कण्वरथन्तरसाम्ना वैश्यः पशुकामः ४

05 प्रतिधुषा प्रातःसवन इत्युक्तम् …{Loading}…

प्रतिधुषा प्रातःसवन इत्युक्तम् ५

06 तीव्रसुतोक्थ्येन रथन्तरसाम्ना बृहत्साम्नोभयसाम्ना …{Loading}…

तीव्रसुतोक्थ्येन रथन्तरसाम्ना बृहत्साम्नोभयसाम्ना वामयाविनमन्नाद्यकामं प्रजाकामं पशुकामं श्रिया वा प्रत्यवरूढं याजयेत् ६

07 शतमाशिरे दुहन्ति …{Loading}…

शतमाशिरे दुहन्ति ७

08 ता दक्षिणा भवन्ति …{Loading}…

ता दक्षिणा भवन्ति ८

09 वैश्यसववच्छ्रयणानि …{Loading}…

वैश्यसववच्छ्रयणानि ९

10 नीतमिश्रेण वा तृतीयसवने …{Loading}…

नीतमिश्रेण वा तृतीयसवने १०

11 अभि सोमानुन्नयन्ति …{Loading}…

अभि सोमानुन्नयन्ति ११

12 अवजिघ्रन्त्यृत्विजो न भक्षयन्ति …{Loading}…

अवजिघ्रन्त्यृत्विजो न भक्षयन्ति १२

13 तानच्छावाकस्य स्तोत्रे भक्षयन्ति …{Loading}…

तानच्छावाकस्य स्तोत्रे भक्षयन्ति १३

14 ब्रह्मणि होत्रका उपहवमिच्छन्ते …{Loading}…

ब्रह्मणि होत्रका उपहवमिच्छन्ते १४

15 उभावध्वर्यू सर्वे चमसाध्वर्यवोऽच्छावाकाय …{Loading}…

उभावध्वर्यू सर्वे चमसाध्वर्यवोऽच्छावाकाय प्रतिगृणन्ति १५

16 प्राच्येकादशिनी सम्मीयते …{Loading}…

प्राच्येकादशिनी सम्मीयते १६

17 यावद्यूपं वेदिमुद्धन्ति …{Loading}…

यावद्यूपं वेदिमुद्धन्ति १७

18 वडबा श्वेता गर्भिणी …{Loading}…

वडबा श्वेता गर्भिणी दक्षिणा १८

19 मरुत्स्तोमेन राजपुरोहितौ सायुज्यम् …{Loading}…

मरुत्स्तोमेन राजपुरोहितौ सायुज्यम् १९

20 अथैष राड् यो …{Loading}…

अथैष राड् । यो राज्यमाशंसमानो न लभेत स एतन २०

21 विराजान्नाद्यकामः स्वराजा प्रतिष्ठाकामः …{Loading}…

विराजान्नाद्यकामः । स्वराजा प्रतिष्ठाकामः २१

इति दशमी कण्डिका


  1. This Sūtra is a continuation of Sūtras XXII.9.19,20, 21 and 22. For all these details see and cp. TMB XVII.3.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TMB XIX.2.1ff. TMB calls it Viraj. ↩︎