०९

01 ततश्चतुर्षु मासेषु शुनासीरीयस्य …{Loading}…

ततश्चतुर्षु मासेषु शुनासीरीयस्य लोके ज्योतिरग्निष्टोमः १

02 वायव्यः पशुः आश्विन्यनूबन्ध्या …{Loading}…

वायव्यः पशुः । आश्विन्यनूबन्ध्या २

03 वैश्वदेववच्छुनासीरीयहवींषि …{Loading}…

वैश्वदेववच्छुनासीरीयहवींषि ३

04 चातुर्मास्यवदन्तरालव्रतानि …{Loading}…

चातुर्मास्यवदन्तरालव्रतानि ४

05 सर्वत्राहतं वसानोऽवभृथादुदेति …{Loading}…

सर्वत्राहतं वसानोऽवभृथादुदेति ५

06 अन्वहम् पञ्चाशत्पञ्चाशद्गा दक्षिणा …{Loading}…

अन्वहं पञ्चाशत्पञ्चाशद्गा दक्षिणा ददाति । द्वादशं शतमुत्तमे ६

07 यथर्तुजा वा यथास्वञ् …{Loading}…

यथर्तुजा वा यथास्वं चातुर्मास्येषु । वत्सांस्तृतीयसवने सह मातृभिः ७

08 उपहव्येनाग्निष्टोमेनानिरुक्तेन ग्रामकामो यजेत …{Loading}…

उपहव्येनाग्निष्टोमेनानिरुक्तेन ग्रामकामो यजेत ८

09 निरुक्तम् प्रातःसवनमित्येके …{Loading}…

निरुक्तं प्रातःसवनमित्येके ९

10 अश्वः श्वेतो दक्षिणा …{Loading}…

अश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः १०

11 ऋतपेयेनाग्निष्टोमेन बृहत्साम्ना स्वर्गकामः …{Loading}…

ऋतपेयेनाग्निष्टोमेन बृहत्साम्ना स्वर्गकामः ११

12 षड् दीक्षा नव …{Loading}…

षड् दीक्षा नव वा षडुपसदः १२

13 घृतव्रतो भवति …{Loading}…

घृतव्रतो भवति १३

14 यावत्प्रथममङ्गुलिकाण्डन् तावत्क्रीते सोमे …{Loading}…

यावत्प्रथममङ्गुलिकाण्डं तावत्क्रीते सोमे व्रतम् १४

15 उत्तरेणोत्तरेण काण्डेन व्रतमुपैति …{Loading}…

उत्तरेणोत्तरेण काण्डेन व्रतमुपैति १५

16 नक्तमाहवनीयमभ्यावृत्यास्ते दिवादित्यम् …{Loading}…

नक्तमाहवनीयमभ्यावृत्यास्ते । दिवादित्यम् १६

17 ऋतमुक्त्वा प्रसर्पन्ति ऋतं …{Loading}…

ऋतमुक्त्वा प्रसर्पन्ति । ऋतं वदन्तो भक्षयन्ति १७

18 औदुम्बरश्चमसश्चतुःस्रक्तिः सोमस्य पूर्णः …{Loading}…

औदुम्बरश्चमसश्चतुःस्रक्तिः सोमस्य पूर्णः सगोत्राय प्रियाय ब्रह्मणे देयः १८

19 बहुहिरण्येनाग्निष्टोमेनानडुहो लोकमाप्नोति ज्योतिष्मतो …{Loading}…

बहुहिरण्येनाग्निष्टोमेनानडुहो लोकमाप्नोति ज्योतिष्मतो लोकाञ्जयति १९

20 द्वादशमानं हिरण्यन् दीक्षणीयायान् …{Loading}…

द्वादशमानं हिरण्यं दीक्षणीयायां ददाति । द्विस्तावत्प्रायणीयायाम् २०

21 एवमत ऊर्ध्वन् द्विगुणाभ्यासेनातिथ्यायामुपसत्प्रयोगेष्व …{Loading}…

एवमत ऊर्ध्वं द्विगुणाभ्यासेनातिथ्यायामुपसत्प्रयोगेष्व ग्नीषोमीयस्य वपायामग्नीषोमये सवनीयस्य वपायां सवनीये प्रातःसवने २१

22 सन्नेषु नाराशंसेष्वनडुच्छतमधिकन् ददाति …{Loading}…

सन्नेषु नाराशंसेष्वनडुच्छतमधिकं ददाति २२

इति नवमी कण्डिका