०८

01 अक्षय्यं ह वै ...{Loading}...

अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति १

02 वैश्वदेवस्य लोके त्रिवृदग्निष्टोमः ...{Loading}...

वैश्वदेवस्य लोके त्रिवृदग्निष्टोमः २

03 वैश्वदेवः पशुः बार्हस्पत्यानूबन्ध्या ...{Loading}...

वैश्वदेवः पशुः । बार्हस्पत्यानूबन्ध्या ३

04 प्रातःसवनीयान्वैश्वदेवहवींष्यनुनिर्वपति ...{Loading}...

प्रातःसवनीयान्वैश्वदेवहवींष्यनुनिर्वपति ४

05 समानन् तु स्विष्टकृदिडम् ...{Loading}...

समानं तु स्विष्टकृदिडम् ५

06 न यूपम् मिन्वन्ति ...{Loading}...

न यूपं मिन्वन्ति । नोत्तरवेदिमुपवपन्ति ६

07 परिधौ पशुन् नियुञ्जन्ति ...{Loading}...

परिधौ पशुं नियुञ्जन्ति । उल्मुके बर्हिषि वा ७

08 मिन्वन्त्युत्तरेषु यूपान् उत्तरवेदिमुपवपन्ति ...{Loading}...

मिन्वन्त्युत्तरेषु यूपान् । उत्तरवेदिमुपवपन्ति ८

09 ततश्चतुर्षु मासेषु वरुणप्रघासानां ...{Loading}...

ततश्चतुर्षु मासेषु वरुणप्रघासानां लोकेऽग्निष्टोम उक्थ्यः । उक्थ्यावग्निष्टोमौ वा ९

10 मारुतः पशुः वारुणो ...{Loading}...

मारुतः पशुः । वारुणो द्वितीये । मैत्रावरुण्यनूबन्ध्या १०

11 वैश्वदेववद्वारुणप्रघासिकानि हवींषि ...{Loading}...

वैश्वदेववद्वारुणप्रघासिकानि हवींषि ११

12 मार्जालीये करम्भपात्रैश्चरन्ति ...{Loading}...

मार्जालीये करम्भपात्रैश्चरन्ति १२

13 ततश्चतुर्षु मासेषु साकमेधानां ...{Loading}...

ततश्चतुर्षु मासेषु साकमेधानां लोकेऽग्निष्टोम उक्थ्योऽतिरात्रः १३

14 आग्नेयः पशुः ऐन्द्राग्नो ...{Loading}...

आग्नेयः पशुः । ऐन्द्राग्नो द्वितीये । ऐकादशिनास्तृतीये प्राजापत्यो वा । सौर्यनूबन्ध्या १४

15 आनीकवतः प्रथमेऽहनि प्रातःसवनीयान् ...{Loading}...

आनीकवतः प्रथमेऽहनि प्रातःसवनीयान् । सान्तपनो माध्यन्दिनीयान् १५

16 वसतीवरीषु परिहृतासु गृहमेधीयेन ...{Loading}...

वसतीवरीषु परिहृतासु गृहमेधीयेन चरन्ति १६

17 उत्तरस्याह्न उपाकृते प्रातरनुवाके ...{Loading}...

उत्तरस्याह्न उपाकृते प्रातरनुवाके पूर्णदर्व्येण चरन्ति १७

18 क्रैडिनः प्रातःसवनीयान् स्वातवसो ...{Loading}...

क्रैडिनः प्रातःसवनीयान् । स्वातवसो माध्यं दिनीयान् । महाहविस्तार्तीयसवनिकान् १८

19 सन्नेषु नाराशंसेषु परिश्रिते ...{Loading}...

सन्नेषु नाराशंसेषु परिश्रिते मार्जालीये पितृयज्ञेन चरन्ति १९

20 त्रैयम्बकैश्चरित्वा प्रत्येत्यादित्येन चरन्ति ...{Loading}...

त्रैयम्बकैश्चरित्वा प्रत्येत्यादित्येन चरन्ति २०

इत्यष्टमी कण्डिका


  1. Cp. ŚB II.6.3.1, ĀpŚS VIII.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VIII. 11.3. ↩︎ ↩︎

  3. See VIII.12.1ff. ↩︎