०७

01 चत्वारस्त्रिवृतोऽग्निष्टोमा रथन्त्रसामानः ...{Loading}...

चत्वारस्त्रिवृतोऽग्निष्टोमा रथन्त्रसामानः १

02 तेषाम् प्रथमेनानिरुक्तेन ग्रामकामो ...{Loading}...

तेषां प्रथमेनानिरुक्तेन ग्रामकामो यजेत २

03 निरुक्तम् प्रातःसवनमित्येके ...{Loading}...

निरुक्तं प्रातःसवनमित्येके ३

04 अश्वः श्वेतो दक्षिणा ...{Loading}...

अश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः ४

05 बृहस्पतिसवो द्वितीयः ...{Loading}...

बृहस्पतिसवो द्वितीयः ५

06 ब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो ...{Loading}...

ब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो वा यजेत यं वा स्थापत्यायाभिषिञ्चेयुः ६

07 परिस्रजी होता भवत्यरुणो ...{Loading}...

परिस्रजी होता भवत्यरुणो मिर्मिरस्त्रिशुक्रः ७

08 बृहस्पते जुषस्व न ...{Loading}...

बृहस्पते जुषस्व न इति बार्हस्पत्यमतिग्राह्यं गृह्णाति ८

09 बार्हस्पत्यः पशुरुपालम्भ्यः ...{Loading}...

बार्हस्पत्यः पशुरुपालम्भ्यः ९

10 प्रातःसवने सन्नेषु नाराशंसेष्वेकादश ...{Loading}...

प्रातःसवने सन्नेषु नाराशंसेष्वेकादश दक्षिणा व्यादिशति १०

11 आज्येन माध्यन्दिने सवने ...{Loading}...

आज्येन माध्यन्दिने सवने कृष्णाजिन आसीनमभिषिञ्चति शुक्रामन्थिवोर्वा संस्रावेण बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा न इति ११

12 अश्वद्वादशा माध्यन् दिने ...{Loading}...

अश्वद्वादशा माध्यं दिने । एकादश तृतीयसवने १२

13 ता उभयीरपाकरोति ...{Loading}...

ता उभयीरपाकरोति १३

14 अपि वाष्टौ प्रातः ...{Loading}...

अपि वाष्टौ प्रातः सवन एकादश माध्यन्दिने द्वादश तृतीयसवने । सर्वा वा माध्यन्दिने १४

15 अश्वन् तृतीयशोऽनुसवनन् नयन्ति ...{Loading}...

अश्वं तृतीयशोऽनुसवनं नयन्ति १५

16 अपि वा मनसेतरयोः ...{Loading}...

अपि वा मनसेतरयोः सवनयोर्ध्यायेत् । न वा मनसा चन १६

17 तृतीयस्येषुं विष्टुतिङ् कृत्वाभिचरन्यजेत ...{Loading}...

तृतीयस्येषुं विष्टुतिं कृत्वाभिचरन्यजेत १७

18 समानमितरच्छ्येनेन ...{Loading}...

समानमितरच्छ्येनेन १८

19 अश्वः श्यावो दक्षिणा ...{Loading}...

अश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः १९

20 चतुर्थः सर्वस्वारः शुनस्कर्णस्तोमः ...{Loading}...

चतुर्थः सर्वस्वारः शुनस्कर्णस्तोमः २०

21 मरणकामो यजेत यः ...{Loading}...

मरणकामो यजेत यः कामयेतानामयता स्वर्गं लोकमियामिति २१

22 याम्यः पशुः शुकहरित ...{Loading}...

याम्यः पशुः शुकहरित उपालम्भ्यः २२

23 कृतान्नन् दक्षिणा ...{Loading}...

कृतान्नं दक्षिणा २३

24 आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीम् ...{Loading}...

आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीं पत्तोदशेनाहतेन वाससा दक्षिणाशिराः प्रावृतः संविशन्नाह ब्राह्मणाः समापयत मे यज्ञमिति २४

25 तदैव सन्तिष्ठते ...{Loading}...

तदैव सन्तिष्ठते २५

26 भुवोक्थ्येन रथन्तरसाम्ना भूतिकामो ...{Loading}...

भुवोक्थ्येन रथन्तरसाम्ना भूतिकामो यजेत २६

27 धेनुर्दक्षिणा ...{Loading}...

धेनुर्दक्षिणा २७

इति सप्तमी कण्डिका


  1. These four Agniṣṭomas are called Prajāpater apūrva (XXII.7.1 4); Prajāpatisava (XXII.7.5-16). Iṣu (XXII.9.17-19); and Sarvasvāra (XXII.7.20-25). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TMB XVII.11.5-6. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TB II.7.1.4. ↩︎

  4. TB II.5.6.3. ↩︎