०६

01 चितिस्तोमः प्रजननकामः ...{Loading}...

चितिस्तोमः प्रजननकामः १

02 गायत्रेणाग्निष्टोमेन रथन्तरसाम्ना ब्राह्मणो ...{Loading}...

गायत्रेणाग्निष्टोमेन रथन्तरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः २

03 गायत्रावग्निष्टोमौ प्रथमयज्ञौ ...{Loading}...

गायत्रावग्निष्टोमौ प्रथमयज्ञौ ३

04 प्रथमेन ब्राह्मणस्य तेजो ...{Loading}...

प्रथमेन ब्राह्मणस्य तेजो ब्रह्मवर्चसम् । द्वितीयेन क्षत्रियस्य राष्ट्रमुग्रमव्यथ्यम् । न तु बहुपशू इव भवतः ४

05 त्रिवृताग्निष्टुताग्निष्टोमेनापूतो यजेत ...{Loading}...

त्रिवृताग्निष्टुताग्निष्टोमेनापूतो यजेत ५

06 आग्नेय्यः पुरोरुचः आग्नेयी ...{Loading}...

आग्नेय्यः पुरोरुचः । आग्नेयी सुब्रह्मण्या ६

07 आग्नेयीषु स्तुवतेऽजा हिरण्यञ् ...{Loading}...

आग्नेयीषु स्तुवतेऽजा हिरण्यं च दक्षिणा ७

08 एतमेव चतुष्टोमङ् कृत्वा ...{Loading}...

एतमेव चतुष्टोमं कृत्वा श्रोत्रियोऽक्षहतः स्त्रीहतः कामहतश्चरणहतो वा यजेत ८

09 अश्वः श्यावो दक्षिणा ...{Loading}...

अश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः ९

10 एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम ...{Loading}...

एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम कृत्वामयाक्विनमन्नाद्यकामं प्रजाकामं पशुकामं वा याजयेत् । एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामम् । एतमेव चतुष्टोमं कृत्वा ग्रामकामम् १०

11 अप्रवर्ग्या भवन्तीत्येके ...{Loading}...

अप्रवर्ग्या भवन्तीत्येके ११

12 त्रिवृतान्नाद्यकामः ...{Loading}...

त्रिवृतान्नाद्यकामः १२

13 पञ्चदशेन वीर्यकामः ...{Loading}...

पञ्चदशेन वीर्यकामः १३

14 सप्तदशेनाग्निष्टुताग्निष्टोमेन यज्ञविभ्रष्टो यजेत ...{Loading}...

सप्तदशेनाग्निष्टुताग्निष्टोमेन यज्ञविभ्रष्टो यजेत यस्मिन्वा क्रतौ विभ्रंशेत १४

15 त्रिवृदवाद्यं वदतः ...{Loading}...

त्रिवृदवाद्यं वदतः १५

16 पञ्चदशो निहत्यस्य निरुक्तः ...{Loading}...

पञ्चदशो निहत्यस्य निरुक्तः १६

17 सप्तदशोऽनाश्यान्नस्य भोजने ...{Loading}...

सप्तदशोऽनाश्यान्नस्य भोजने १७

18 एकविंशो जनं यतो ...{Loading}...

एकविंशो जनं यतो गन्धारिकलिङ्गमगधान्पारस्करान्सौवीरान्वा १८

19 त्रिणव ओजस्कामः ...{Loading}...

त्रिणव ओजस्कामः १९

20 त्रयस्त्रिंशः स्वर्गकामः अपि ...{Loading}...

त्रयस्त्रिंशः स्वर्गकामः । अपि वा ज्योतिष्टोम एव २०

21 अग्निष्टोमे सर्वान्कामान्कामयेत ...{Loading}...

अग्निष्टोमे सर्वान्कामान्कामयेत २१

इति षष्ठी कण्डिका


  1. For this sacrifice see JB II.16-163. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. These verses are found in LāṭyāŚS I.4.1-4. ↩︎ ↩︎ ↩︎ ↩︎