०६

01 चितिस्तोमः प्रजननकामः …{Loading}…

चितिस्तोमः प्रजननकामः १

02 गायत्रेणाग्निष्टोमेन रथन्तरसाम्ना ब्राह्मणो …{Loading}…

गायत्रेणाग्निष्टोमेन रथन्तरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः २

03 गायत्रावग्निष्टोमौ प्रथमयज्ञौ …{Loading}…

गायत्रावग्निष्टोमौ प्रथमयज्ञौ ३

04 प्रथमेन ब्राह्मणस्य तेजो …{Loading}…

प्रथमेन ब्राह्मणस्य तेजो ब्रह्मवर्चसम् । द्वितीयेन क्षत्रियस्य राष्ट्रमुग्रमव्यथ्यम् । न तु बहुपशू इव भवतः ४

05 त्रिवृताग्निष्टुताग्निष्टोमेनापूतो यजेत …{Loading}…

त्रिवृताग्निष्टुताग्निष्टोमेनापूतो यजेत ५

06 आग्नेय्यः पुरोरुचः आग्नेयी …{Loading}…

आग्नेय्यः पुरोरुचः । आग्नेयी सुब्रह्मण्या ६

07 आग्नेयीषु स्तुवतेऽजा हिरण्यञ् …{Loading}…

आग्नेयीषु स्तुवतेऽजा हिरण्यं च दक्षिणा ७

08 एतमेव चतुष्टोमङ् कृत्वा …{Loading}…

एतमेव चतुष्टोमं कृत्वा श्रोत्रियोऽक्षहतः स्त्रीहतः कामहतश्चरणहतो वा यजेत ८

09 अश्वः श्यावो दक्षिणा …{Loading}…

अश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः ९

10 एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम …{Loading}…

एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम कृत्वामयाक्विनमन्नाद्यकामं प्रजाकामं पशुकामं वा याजयेत् । एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामम् । एतमेव चतुष्टोमं कृत्वा ग्रामकामम् १०

11 अप्रवर्ग्या भवन्तीत्येके …{Loading}…

अप्रवर्ग्या भवन्तीत्येके ११

12 त्रिवृतान्नाद्यकामः …{Loading}…

त्रिवृतान्नाद्यकामः १२

13 पञ्चदशेन वीर्यकामः …{Loading}…

पञ्चदशेन वीर्यकामः १३

14 सप्तदशेनाग्निष्टुताग्निष्टोमेन यज्ञविभ्रष्टो यजेत …{Loading}…

सप्तदशेनाग्निष्टुताग्निष्टोमेन यज्ञविभ्रष्टो यजेत यस्मिन्वा क्रतौ विभ्रंशेत १४

15 त्रिवृदवाद्यं वदतः …{Loading}…

त्रिवृदवाद्यं वदतः १५

16 पञ्चदशो निहत्यस्य निरुक्तः …{Loading}…

पञ्चदशो निहत्यस्य निरुक्तः १६

17 सप्तदशोऽनाश्यान्नस्य भोजने …{Loading}…

सप्तदशोऽनाश्यान्नस्य भोजने १७

18 एकविंशो जनं यतो …{Loading}…

एकविंशो जनं यतो गन्धारिकलिङ्गमगधान्पारस्करान्सौवीरान्वा १८

19 त्रिणव ओजस्कामः …{Loading}…

त्रिणव ओजस्कामः १९

20 त्रयस्त्रिंशः स्वर्गकामः अपि …{Loading}…

त्रयस्त्रिंशः स्वर्गकामः । अपि वा ज्योतिष्टोम एव २०

21 अग्निष्टोमे सर्वान्कामान्कामयेत …{Loading}…

अग्निष्टोमे सर्वान्कामान्कामयेत २१

इति षष्ठी कण्डिका


  1. For this sacrifice see JB II.16-163. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. These verses are found in LāṭyāŚS I.4.1-4. ↩︎ ↩︎ ↩︎ ↩︎