०५

01 त्रयो वाचः स्तोमाः ...{Loading}...

त्रयो वाचः स्तोमाः १

02 पूर्वावग्निष्टोमौ रथन्तरसामानौ सर्वस्तोमोऽतिरात्र ...{Loading}...

पूर्वावग्निष्टोमौ रथन्तरसामानौ । सर्वस्तोमोऽतिरात्र उत्तरः २

03 तस्मिन्सर्वा ऋचः सर्वाणि ...{Loading}...

तस्मिन्सर्वा ऋचः सर्वाणि सामानि सर्वाणि यजूंषि प्रयुज्यन्ते ३

04 व्रात्यानाम् प्रवासे व्रात्यस्तोमा ...{Loading}...

व्रात्यानां प्रवासे व्रात्यस्तोमा उक्थ्या रथन्तरसामानः । द्वितीयो वाग्निष्टोमः ४

05 उष्णीषम् प्रतोदो ज्याह्रोडो ...{Loading}...

उष्णीषं प्रतोदो ज्याह्रोडो रथो विपथः फलकास्तीर्णोऽश्वोऽश्वतरश्च युग्यौ कृष्णशं वासः कृष्णबलक्षे अजिने रजतो निष्कः ५

06 तद्गृहपतेः ...{Loading}...

तद्गृहपतेः ६

07 बलूकान्तानि दामतूषाणीतरेषाम् ...{Loading}...

बलूकान्तानि दामतूषाणीतरेषाम् ७

08 द्वे द्वे दामनी ...{Loading}...

द्वे द्वे दामनी भवतः । द्वे द्वे उपानहौ ८

09 द्विषंहितान्यजिनानि ...{Loading}...

द्विषंहितान्यजिनानि ९

10 त्रयस्त्रिंशतात्रयस्त्रिंशता गृहपतिमभि समायन्ति ...{Loading}...

त्रयस्त्रिंशतात्रयस्त्रिंशता गृहपतिमभि समायन्ति १०

11 ता दक्षिणा भवन्ति ...{Loading}...

ता दक्षिणा भवन्ति ११

12 अपि वा षट्षष्टिङ् ...{Loading}...

अपि वा षट्षष्टिं गा वन्वीरन् १२

13 अथो खल्वाहुर्यदेवैषां सातं ...{Loading}...

अथो खल्वाहुर्यदेवैषां सातं स्यात्तद्दद्युस्तद्धि व्रात्यधनमिति १३

14 षट्षोडशी निन्दितानाम् द्विषोडशी ...{Loading}...

षट्षोडशी निन्दितानाम् । द्विषोडशी कनिष्ठानाम् । ऊर्ध्वस्तोमो ज्येष्ठानाम् । चतुःषोडशी सर्वेषाम् १४

15 आदित्यानाम् प्रयतिरुक्थ्यो नाकसदाम् ...{Loading}...

आदित्यानां प्रयतिरुक्थ्यो नाकसदां प्रथमः १५

16 व्यावृत्तिम् पाप्मना भ्रातृव्येण ...{Loading}...

व्यावृत्तिं पाप्मना भ्रातृव्येण गच्छन्ति १६

17 अग्निष्टोमा इतरे अङ्गिरसान् ...{Loading}...

अग्निष्टोमा इतरे । अङ्गिरसां द्वितीयः । साध्यानां तृतीयः । मरुतां चतुर्थेनौजो वीर्यमाप्नोति । त्रयस्त्रिंशः पञ्चमः १७

18 स्वर्गकामोऽभिभुवा भ्रातृव्यमभिभवति विनुत्त्या ...{Loading}...

स्वर्गकामोऽभिभुवा भ्रातृव्यमभिभवति । विनुत्त्या भ्रातृव्यं विनुदते १८

इति पञ्चमी कण्डिका


  1. Thus the Vrātyastomas are to be performed by those Āhitāgni sacrificers who intend to become Vrātyas. Vrātyastomas are Soma sacrifices and can be performed only by Āhitāgnis and not by Vrātyas. This is quite in contranst with Kātyāyanaśrautasūtra XXII.4.27-28 according to which Vrātyas have to perform the Vrātyastomas and after these sacrifices are performed, they should stop leading the life of Vrātyas and then they became socially acceptable. It seems that Āpastamba represents the original tradition because only an Āhitāgni can perform any Soma-sacrifice. A Vrātya who is an out-caste even according to Kātyāyana is really speaking unable to perform any Śrauta ritual. So there is a contradition in Kātyāyana’s view. There is none in that of Āpastamba. The modern scholars have not paid attention to this Sūtra of Āpastamba. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎