०३

01 उदित आदित्ये दीक्षिते …{Loading}…

उदित आदित्ये दीक्षिते प्रागस्तमयादवभृथः १

02 उपसत्सु त्रिः सम्मीलेत् …{Loading}…

उपसत्सु त्रिः सम्मीलेत् । सम्मील्य वा प्रचरेत् । अपि वा नापराह्णिक्य उपसदः २

03 यवोर्वरा वेदिः …{Loading}…

यवोर्वरा वेदिः ३

04 यवानाङ् खल उत्तरवेदिः …{Loading}…

यवानां खल उत्तरवेदिः ४

05 आरोहणे हविर्धाने …{Loading}…

आरोहणे हविर्धाने ५

06 विमितं सदः …{Loading}…

विमितं सदः ६

07 स्फ्यो यूपः स्फ्याग्रो …{Loading}…

स्फ्यो यूपः स्फ्याग्रो वा खलेवाली लाङ्गलेषा वा ७

08 कलापि चषालम् …{Loading}…

कलापि चषालम् ८

09 अग्नीषोमीयकाल ईजानस्य गृहाद्वसतीवरीर्गृह्णीयात् …{Loading}…

अग्नीषोमीयकाल ईजानस्य गृहाद्वसतीवरीर्गृह्णीयात् ९

10 सवनीयकाले सह पशूनालभतेऽग्नीषोमीयं …{Loading}…

सवनीयकाले सह पशूनालभतेऽग्नीषोमीयं सवनीयमनूबन्ध्यां च १०

11 अग्नीषोमीयस्य स्थाने ऽग्नीषोमीय …{Loading}…

अग्नीषोमीयस्य स्थाने ऽग्नीषोमीय एकादशकपालः । अनूबन्ध्यास्थाने मैत्रावरुण्यामिक्षा ११

12 तस्या दक्षिणाकाले सदश्वः …{Loading}…

तस्या दक्षिणाकाले सदश्वः श्वेतो दक्षिणा १२

13 तमाङ्गिरसाय भ्रातृव्याय वा …{Loading}…

तमाङ्गिरसाय भ्रातृव्याय वा दद्यात् १३

14 द्वेष्यं वा ब्राह्मणं …{Loading}…

द्वेष्यं वा ब्राह्मणं वृत्वा तस्मा अश्वं रुक्मप्रतिमुक्तं दद्यात् १४

15 तदलाभे गौः श्वेतः …{Loading}…

तदलाभे गौः श्वेतः १५

16 संवत्सरमुपरिष्टात्पादावनेजनम् मांसं स्त्रियमनृतमुपरिशय्यामाञ्जनाभ्यञ्जने …{Loading}…

संवत्सरमुपरिष्टात्पादावनेजनं मांसं स्त्रियमनृतमुपरिशय्यामाञ्जनाभ्यञ्जने च वर्जयेत् १६

17 सा दीक्षा …{Loading}…

सा दीक्षा १७

18 यदि संवत्सरन् न …{Loading}…

यदि संवत्सरं न शक्नुयाद्द्वादशाहम् १८

इति तृतीया कण्डिका


  1. Cf. JB II. 118. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎