०२

01 अन्नादश्च भवति …{Loading}…

अन्नादश्च भवति १

02 तस्य महाव्रतम् पृष्ट्यमर्क्यं …{Loading}…

तस्य महाव्रतं पृष्ट्यमर्क्यं शस्यते २

03 सहस्रन् दक्षिणा विंशतिर्वाष्टाविंशतीनाम् …{Loading}…

सहस्रं दक्षिणा विंशतिर्वाष्टाविंशतीनाम् ३

04 चत्वारः साहस्राः …{Loading}…

चत्वारः साहस्राः ४

05 ज्योतिरग्निष्टोमो रथन्तरसामा प्रथमः …{Loading}…

ज्योतिरग्निष्टोमो रथन्तरसामा प्रथमः । प्राणेष्वन्नाद्ये च प्रतितिष्ठति । गौरुक्थ्यो बृहत्सामा द्वितीयः । पशुषु प्रतितिष्ठति । सर्वज्योतिरग्निष्टोम उभयसामा तृतीयः । सर्वमाप्नोति सर्वं जयति । त्रिरात्रसम्मितोऽग्निष्टोमो बृहत्सामा चतुर्थः । त्रिरात्रस्य फलमाप्नोति ५

06 चत्वारः साद्यस्क्राः …{Loading}…

चत्वारः साद्यस्क्राः ६

07 तेषां विशेषः …{Loading}…

तेषां विशेषः ७

08 रथन्तरसामा बृहत्सामोभयसामा वा …{Loading}…

रथंतरसामा बृहत्सामोभयसामा वा प्रथमः ८

09 तस्मिन्कामाः स्पर्धायाम् भ्रातृव्यतिस्तीर्षा …{Loading}…

तस्मिन्कामाः स्पर्धायां भ्रातृव्यतिस्तीर्षा स्वर्गः पशवो वा ९

10 तेषाम् पूर्वेद्युराग्नेयः सौम्यो …{Loading}…

तेषां पूर्वेद्युराग्नेयः सौम्यो बार्हस्पत्यश्च पशवः १०

11 तेषामेकादशिन्यां रूपाणि …{Loading}…

तेषामेकादशिन्यां रूपाणि ११

12 तदलाभ एतासान् देवतानामष्टाकपालः …{Loading}…

तदलाभ एतासां देवतानामष्टाकपालः प्रथमश्चरू चेतरौ १२

13 धारयत्याहवनीयम् …{Loading}…

धारयत्याहवनीयम् १३

14 व्याघारयत्युत्तरवेदिम् …{Loading}…

व्याघारयत्युत्तरवेदिम् १४

15 सर्पिष्मदशनम् …{Loading}…

सर्पिष्मदशनम् १५

16 हिरण्यम् मुखे न्यस्यान्तरोरू …{Loading}…

हिरण्यं मुखे न्यस्यान्तरोरू प्रियायै भार्यायै ब्रह्मचारी शेते श्व इष्ट्या पशुना वा यक्ष्य इति १६

17 ऋत्विजः समोढाः …{Loading}…

ऋत्विजः समोढाः १७

18 तान्यथालोकं विनिधाय सर्वा …{Loading}…

तान्यथालोकं विनिधाय सर्वा दिशः सक्षीरदृतयोऽश्वरथाः सोमप्रवाका विधावन्ति १८

19 तेभ्यो यन्नवनीतमुदियात्तदाज्येऽवनयेत् …{Loading}…

तेभ्यो यन्नवनीतमुदियात्तदाज्येऽवनयेत् १९

20 चतुर्युजा योजने प्राच्यान् …{Loading}…

चतुर्युजा योजने प्राच्यां दिशि । त्रियुजोत्तरतस्त्रिक्रोशे । द्वियुजा पश्चाद्द्विक्रोशे । दक्षिणैकयुक्तेन क्रोशे २०

21 अश्वतरीरथो वैकः …{Loading}…

अश्वतरीरथो वैकः २१

22 प्रदक्षिणम् पूर्वेणोत्सर्गः …{Loading}…

प्रदक्षिणं पूर्वेणोत्सर्गः २२

23 योजनादीनि वाद्विक्रोशानि …{Loading}…

योजनादीनि वाद्विक्रोशानि २३

24 अश्वरथेन दक्षिणोत्सर्गः …{Loading}…

अश्वरथेन दक्षिणोत्सर्गः २४

25 त्रिवत्सः साण्डः सोमक्रयणः …{Loading}…

त्रिवत्सः साण्डः सोमक्रयणः २५

इति द्वितीया कण्डिका


  1. Cf. TMB XVI.7.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TMB XVI.7.4. ↩︎ ↩︎ ↩︎

  3. Cf. TMB XVI.11. ↩︎