०१

01 एकाहेष्वहीनेष्विति प्राकृतीर्दक्षिणा ददाति …{Loading}…

एकाहेष्वहीनेष्विति प्राकृतीर्दक्षिणा ददाति । यथासमाम्नातं वा १

02 सर्वक्रतूनाम् प्रकृतिरग्निष्टोमः निकायिनान् …{Loading}…

सर्वक्रतूनां प्रकृतिरग्निष्टोमः । निकायिनां तु प्रथमः सर्वत्र । यथादिष्टं वा २

03 ज्योतिर्गौरायुरिति त्रिकद्रुकाः …{Loading}…

ज्योतिर्गौरायुरिति त्रिकद्रुकाः ३

04 प्रथमोऽग्निष्टोम उक्थ्या वा …{Loading}…

प्रथमोऽग्निष्टोम उक्थ्या वा सर्वे ४

05 ज्योतिषि सहस्रन् ददातीति …{Loading}…

ज्योतिषि सहस्रं ददातीति श्यैतनियमाद्बृहत्पृष्ठः । ५

06 गौर्भ्रातृव्यवतः आयुः स्वर्गकामस्य …{Loading}…

गौर्भ्रातृव्यवतः । आयुः स्वर्गकामस्य । अग्निष्टोमस्तु भ्रातृव्यवतः । विश्वजिदग्निष्टोमः श्रैष्ट्यकामस्य ६

07 सहस्रन् दक्षिणा सर्ववेदसं …{Loading}…

सहस्रं दक्षिणा सर्ववेदसं वा यावतीर्वा क्रतोः स्तोत्रीयाः ७

08 सर्ववेदसे ज्येष्ठम् पुत्रमपभज्य …{Loading}…

सर्ववेदसे ज्येष्ठं पुत्रमपभज्य संविदो विपरियाचेत ८

09 यद्दक्षिणाकाले सर्वस्वन् तद्दद्याद्यदन्यद्भूमेः …{Loading}…

यद्दक्षिणाकाले सर्वस्वं तद्दद्याद्यदन्यद्भूमेः पुरुषेभ्यश्च ९

10 उत्तमान् दक्षिणान् नीत्वोदवसाय …{Loading}…

उत्तमां दक्षिणां नीत्वोदवसाय वा दक्षिणेनौदुम्बरीं प्राङ्निषद्य ब्रूयाद्यन्मेऽद ऋणं यददस्तत्सर्वं ददामीति १०

11 उदवसाय रोहिणीं वत्सच्छवीमिति …{Loading}…

उदवसाय रोहिणीं वत्सच्छवीमिति समानम् ११

12 इन्द्रस्याभिजिदग्निष्टोमो ऽनभिजितस्याभिजित्यै …{Loading}…

इन्द्रस्याभिजिदग्निष्टोमो ऽनभिजितस्याभिजित्यै १२

13 उभे बृहद्रथन्तरे भवतः …{Loading}…

उभे बृहद्रथन्तरे भवतः परोऽक्षपृष्ठो वा १३

14 बृहत्तु होतुः पशवश्चैकादशैकयूपे …{Loading}…

बृहत्तु होतुः पशवश्चैकादशैकयूपे १४

15 सहस्रन् दक्षिणा वराणां …{Loading}…

सहस्रं दक्षिणा वराणां वा द्वादशं शतम् १५

16 सर्वजिताग्निष्टोमेन सर्वमाप्नोति सर्वञ् …{Loading}…

सर्वजिताग्निष्टोमेन सर्वमाप्नोति सर्वं जयति १६

इति प्रथमा कण्डिका


  1. e.g. XXII.4.24. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TMB XVI.2.4. ↩︎ ↩︎

  3. Cf. TMB XVI.3.3. ↩︎

  4. Cf. TMB XVI.4.2. ↩︎