२५

01 एवमत ऊर्ध्वं षडहैर्मासान्सम्पाद्य ...{Loading}...

एवमत ऊर्ध्वं षडहैर्मासान्सम्पाद्य सप्तममुत्सृज्यैतत्कुर्वन्ति १

02 पञ्च ज्योतींषि प्राग्विषुवत ...{Loading}...

पञ्च ज्योतींषि प्राग्विषुवत उत्सृज्यन्ते २

03 चत्वारस्त्रयस्त्रिंशा उपरिष्टादेकञ् च ...{Loading}...

चत्वारस्त्रयस्त्रिंशा उपरिष्टादेकं च ज्योतिः संभार्ये ३

04 प्रथमसप्तमयोरेव नोत्सृजेयुरित्येके ...{Loading}...

प्रथमसप्तमयोरेव नोत्सृजेयुरित्येके ४

05 अथैकेषाम् यान्यहान्युत्सर्गप्राप्तान्येकत्रिकस्तोत्राण्येव स्युः ...{Loading}...

अथैकेषाम् । यान्यहान्युत्सर्गप्राप्तान्येकत्रिकस्तोत्राण्येव स्युः ५

06 एकैकां वैषां स्तोत्रीयामुत्सृजेयुः ...{Loading}...

एकैकां वैषां स्तोत्रीयामुत्सृजेयुः । उक्थानि वा ६

07 संवत्सरस्योत्तमेऽहन्नेकामेव स्तोत्रीयामुत्सृजेयुः तदुत्सृष्टञ् ...{Loading}...

संवत्सरस्योत्तमेऽहन्नेकामेव स्तोत्रीयामुत्सृजेयुः । तदुत्सृष्टं चानुत्सृष्टं च भवतीति ७

08 अथैकेषाम् यदहरुत्सृजेयुस्तदेव श्वो ...{Loading}...

अथैकेषाम् । यदहरुत्सृजेयुस्तदेव श्वो भूत उपेयुः ८

09 तदु तथा न ...{Loading}...

तदु तथा न कुर्यात् विकस्तिः सा संवत्सरस्य भवतीति ९

10 अवभृथादुदेत्य तान्येवोपेयुः ...{Loading}...

अवभृथादुदेत्य तान्येवोपेयुः १०

11 द्वादश यद्यमावास्यायामुत्सृजेयुः यद्युभयत्र ...{Loading}...

द्वादश यद्यमावास्यायामुत्सृजेयुः । यद्युभयत्र चतुर्विंशतिः ११

12 तदेतत्पौत्रीयम् पशव्यमायुष्यं स्वर्ग्यम् ...{Loading}...

तदेतत्पौत्रीयं पशव्यमायुष्यं स्वर्ग्यम् १२

13 सन्तिष्ठत उत्सर्गिणामयनमुत्सर्गिणामयनम् ...{Loading}...

सन्तिष्ठत उत्सर्गिणामयनमुत्सर्गिणामयनम् १३

इति पञ्चविंशी कण्डिका इत्येकविंशः प्रश्नः


  1. The first of these is mentioned in XXI.24.4. In the first half of the year in the second, third, fourth, fifth and sixth month the first day of each Abhiplava-six-day period is to be abandoned. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The Ekatrika-stoma consists of alternately one-versed and three versed stotra: see Ārśyakalpa III.8. ↩︎