२४

01 उत्सर्गिणामयनङ् गवामयनङ् गुणविकृतम् …{Loading}…

उत्सर्गिणामयनं गवामयनं गुणविकृतम् १

02 मित्युक्तम् …{Loading}…

उत्सृज्यां३ नोत्सृज्या३मित्युक्तम् २

03 यद्यहान्युत्सृजेयुः प्रथमम् पृष्ठ्यं …{Loading}…

यद्यहान्युत्सृजेयुः प्रथमं पृष्ठ्यं संस्थाप्यापरस्मा अह्ने वसतीवरीः परिहृत्य वसतीवरीषु मृत्पिण्डमवधायैन्द्रं सान्नाय्यं निरुप्योपवसन्ति ३

04 श्वो भूतेऽहरुत्सृज्य प्राजापत्यम् …{Loading}…

श्वो भूतेऽहरुत्सृज्य प्राजापत्यं पशुमालभन्ते ४

05 तस्य यथाकालं वपया …{Loading}…

तस्य यथाकालं वपया प्रचर्याग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपत्यैन्द्रं च दधि ५

06 तयोः समानं स्विष्टकृदिडम् …{Loading}…

तयोः समानं स्विष्टकृदिडम् ६

07 उपहूतायामिडायां सान्नाय्यं समुपहूय …{Loading}…

उपहूतायामिडायां सान्नाय्यं समुपहूय भक्षयन्ति ७

08 माध्यन्दिनकाले पशुपुरोडाशेन प्रचर्येन्द्राय …{Loading}…

माध्यन्दिनकाले पशुपुरोडाशेन प्रचर्येन्द्राय मरुत्वते पुरोडाशमेकादशकपालं निर्वपत्यैन्द्रं च चरुम् ८

09 हविराहुतिप्रभृतीडान्तं संस्थाप्य तृतीयसवनकाले …{Loading}…

हविराहुतिप्रभृतीडान्तं संस्थाप्य तृतीयसवनकाले पशुना प्रचर्य वैश्वदेवं द्वादशकपालं निर्वपति वैश्वदेवं च चरुम् ९

10 पूर्ववद्धविषी संस्थापयेत् …{Loading}…

पूर्ववद्धविषी संस्थापयेत् १०

11 अपि वा सवनीयानेव …{Loading}…

अपि वा सवनीयानेव पुरोडाशानेतेषां हविषां स्थाने । अध्वरकल्पान्वा ११

12 अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकङ् कर्म …{Loading}…

अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते १२

इति चतुर्विंशी कण्डिका


  1. TS VIII.5.7.1-2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS II.2.9.4-7. ↩︎