२३

01 सौर्यं विषुवत्युपालम्भ्यम् ...{Loading}...

सौर्यं विषुवत्युपालम्भ्यम् १

02 तेषामेवमुपाकुर्वतान् द्वादशाहीयस्य दशरात्रस्य ...{Loading}...

तेषामेवमुपाकुर्वतां द्वादशाहीयस्य दशरात्रस्य सप्तदश उक्थ्ये द्वात्रिंशतमेकादशिन्योऽपवृज्यन्ते २

03 नवाहान्यतिरिच्यन्ते ...{Loading}...

नवाहान्यतिरिच्यन्ते ३

04 तेषु गव्यानतिरिक्तपशूनालभन्ते वैष्णवं ...{Loading}...

तेषु गव्यानतिरिक्तपशूनालभन्ते । वैष्णवं वामनमेकविंशे । ऐन्द्राग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिंशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे । तस्या एव वायव्यं वत्सं मध्यमे । आदित्यामविं वशामुत्तमे । मैत्रावरुणीमविवाक्ये । प्राजापत्यमृषभं तूपरं महाव्रते । आग्नेयमुदयनीये ४

05 इति पालिङ्गायनिकाः ...{Loading}...

इति पालिङ्गायनिकाः ५

06 अथ काठकाः ...{Loading}...

अथ काठकाः ६

07 ऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदयनीययोरालभन्ते ...{Loading}...

ऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदयनीययोरालभन्ते ७

08 आग्नेयमन्तर्धौ रथन्तरपृष्ठेष्वैन्द्रम् बृहत्पृष्ठेषु ...{Loading}...

आग्नेयमन्तर्धौ रथन्तरपृष्ठेष्वैन्द्रं बृहत्पृष्ठेषु ८

09 अपि वाग्नेन्द्रं रथन्तरपृष्ठेष्वैन्द्राग्नम् ...{Loading}...

अपि वाग्नेन्द्रं रथन्तरपृष्ठेष्वैन्द्राग्नं बृहत्पृष्ठेषु ९

10 तेष्वेव नवसु गव्यान् ...{Loading}...

तेष्वेव नवसु गव्यान् १०

11 तत्र विकारः ...{Loading}...

तत्र विकारः ११

12 बार्हस्पत्यं शितिपृष्ठन् त्रयस्त्रिंशे ...{Loading}...

बार्हस्पत्यं शितिपृष्ठं त्रयस्त्रिंशे । वाचे पृश्निमुत्तमे । वैश्वकर्मणमृषभं तूपरं महाव्रते द्विरूपमुभयतएतम् १२

13 क्रतुपशूनेव समभ्युच्चयवदन्वहमालभेरन्यदि विभवः ...{Loading}...

क्रतुपशूनेव समभ्युच्चयवदन्वहमालभेरन्यदि विभवः पशवः स्युः । ऐकादशिनान्वा विहृतानिति वाजसनेयकम् १३

14 ऐन्द्राग्नं वा सर्वत्र ...{Loading}...

ऐन्द्राग्नं वा सर्वत्र १४

इति त्रयोविंशी कण्डिका


  1. Cf. TB 1.2.3.2; KS XXX.5. Compare the additional scoop for Sūrya in XXI.21.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. ŚB IV.6.3.1ff. ↩︎