२२

01 इमा नु कम् ...{Loading}...

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु । आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करदिति पश्चार्धे १

02 त्वामिद्धि हवामह इत्युत्तरार्धे ...{Loading}...

त्वामिद्धि हवामह इत्युत्तरार्धे २

03 तदिदास भुवनेषु ज्येष्ठं ...{Loading}...

तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमा इति मध्यमे ३

04 तानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे ...{Loading}...

तानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति ४

05 अथैकेषाम् यन्नाना जुहुयादात्मनो ...{Loading}...

अथैकेषाम् । यन्नाना जुहुयादात्मनो ऽङ्गानि विच्छिन्द्यात् । यत्समाहृत्याहुतीः संरुन्ध्यात्तदनु यजमानाः संरुन्ध्येरन् । स्तोका एवात्मन्प्रत्यानीय होतव्याः । प्रत्यहाङ्गानि ददाति नाहुतीः संरुणद्धि न यज्ञं विच्छिनत्तीति विज्ञायते ५

06 तम् भक्षयति महस्ते ...{Loading}...

तं भक्षयति महस्ते भक्षयामि बर्गं ते भक्षयामि भुजं ते भक्षयाम्यन्नाद्यं ते भक्षयामीति ६

07 त्र्यनीकां व्याख्यास्यामः ...{Loading}...

त्र्यनीकां व्याख्यास्यामः ७

08 ऐन्द्रवायवाग्रम् प्रथममहरथ शुक्राग्रमथाग्रयणाग्रम् ...{Loading}...

ऐन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाग्रयणाग्रम् ८

09 एवंविहिता त्र्यनीका परिवर्तत ...{Loading}...

एवंविहिता त्र्यनीका परिवर्तत इत ऊर्ध्वा प्राग्विषुवतः ९

10 ऊर्ध्वं विषुवत आवृत्तावृत्तेषु ...{Loading}...

ऊर्ध्वं विषुवत आवृत्तावृत्तेषु १०

11 शुक्राग्रो विषुवान् ...{Loading}...

शुक्राग्रो विषुवान् ११

12 अथ पशुकॢप्तिः ...{Loading}...

अथ पशुकॢप्तिः १२

13 आग्नेयम् प्रायणीय आलभन्ते ...{Loading}...

आग्नेयं प्रायणीय आलभन्ते । श्वो भूते सारस्वतीं मेषीम् १३

14 एवंविहितानैकादशिनानन्वहमालभन्ते ...{Loading}...

एवंविहितानैकादशिनानन्वहमालभन्ते १४

इति द्वाविंशी कण्डिका