२१

01 व्याख्यात उदयनीयः पृष्ठशमनीयश्च ...{Loading}...

व्याख्यात उदयनीयः पृष्ठशमनीयश्च १

02 अथ ग्रहकॢप्तिः ...{Loading}...

अथ ग्रहकॢप्तिः २

03 त्रिषु परःसामसु त्रीनतिग्राह्यान्गृह्णाति ...{Loading}...

त्रिषु परःसामसु त्रीनतिग्राह्यान्गृह्णाति ३

04 उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टङ् गृह्णामीति ...{Loading}...

उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति प्रथमेऽहनि गृह्णाति । ओषधीभ्यस्त्वा प्रजाभ्य इति द्वितीये । प्रजाभ्यस्त्वा प्रजापतय इति तृतीये ४

05 एतानेवावृतानर्वाक्सामसु ...{Loading}...

एतानेवावृतानर्वाक्सामसु ५

06 तानूर्ध्वानावृत्तांश्च विषुवति ...{Loading}...

तानूर्ध्वानावृत्तांश्च विषुवति ६

07 तेषाम् मध्ये सौर्यमुदु ...{Loading}...

तेषां मध्ये सौर्यमुदु त्यं जातवेदसमिति ७

08 एतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमङ् गृह्णाति ...{Loading}...

एतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमं गृह्णाति वाचस्पतिं विश्वकर्माणमूतय इति ८

09 श्वो भूत आदित्यम् ...{Loading}...

श्वो भूत आदित्यं महीमू षु मातरमिति ९

10 तावेवमेव व्यत्यासङ् गृह्णात्या ...{Loading}...

तावेवमेव व्यत्यासं गृह्णात्या महाव्रतात् १०

11 तौ सह महाव्रते ...{Loading}...

तौ सह महाव्रते । प्राजापत्यं च पञ्चपात्रम् ११

12 त्रयस्त्रिंशतमेतदहरतिग्राह्यान्गृह्णाति ...{Loading}...

त्रयस्त्रिंशतमेतदहरतिग्राह्यान्गृह्णाति १२

13 दशाग्नेया दशैन्द्रा दश ...{Loading}...

दशाग्नेया दशैन्द्रा दश सौर्या वैश्वकर्मन आदित्यः पञ्चपात्र इति त्रयस्त्रिंशत् १३

14 अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशन् ...{Loading}...

अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति । मध्ये पञ्चमम् १४

15 पूर्वार्धे गृह्णाति ...{Loading}...

पूर्वार्धे गृह्णाति १५

16 इन्द्रमिद्गाथिन इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्राय त्वार्कवते ...{Loading}...

इन्द्रमिद्गाथिन इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्राय त्वार्कवते जुष्टं गृह्णामीति गृहीत्वैष ते योनिरिन्द्राय त्वार्कवत इति सादयति १६

17 एवं सर्वत्र ग्रहनसादनौ ...{Loading}...

एवं सर्वत्र ग्रहनसादनौ सन्नमति १७

18 अभि त्वा शूर ...{Loading}...

अभि त्वा शूर नोनुम इति दक्षिणार्धे १८

इत्येकविंशी कण्डिका


  1. See XXI.13.1 and 5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS VII.5.4.2; TB I.2.3.4. ↩︎